SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ नबराजयशोभूषणम् । [विलास. ७ ततः सैषा भूयः स्रगिव नवसौरभ्यभरिता कवीनामानन्दं जनयतु जगद्रञ्जयतु च ॥ अन गुणानां कृतेश्चान्योन्यालङ्कारत्वादन्योन्यम् । अथ विरोधमूलो विषमालङ्कारः कथ्यते। हेतोविलक्षणोत्पत्तौ घटने च विरूपयोः । अनिष्टघटने च स्याद्विषमालङ्कृतिस्त्रिधा ॥ यत्र हेतोविलक्षणकार्योत्पत्तिस्तदैकं विषमम् । विरूपयोवस्तुनोर्घटने वितीयम् । अनिष्टस्योत्पत्तौ च तृतीयम् । तत्र प्रथमं यथा रणे नाविभोश्चक्षुःकोणः कोकनदारुणः। तनुते वैरिणामन्तस्तमालश्यामलं तमः ।। अत्रारुणदृष्टिकोणात् श्यामलस्य तमसः प्रादुर्भावकथनाविलक्षणकायोत्पत्तिः। द्वितीयं यथाधिक्तं सरोजभुवमुत्लवमानबुद्धि यन्नञ्जराजविमतान्जदृशां पदेषु । तत्तादृशीं मृदुलतां सृजतैव येन क्लप्ता कठोरवनचङ्कमदुर्दशा च ॥ अत्र नञ्जराजविमताब्जदृशां पदेषु तादृशमृदुलतावनचडुमदुर्दशयोश्च योजनादिरूपघटनात्मा विषमालङ्कारः। तृतीयं यथाजित्वा नाविभुप्रतापविभवं प्राप्तुं महत्त्वं पय स्यम्बोधेरनलो निमज्य सुचिरं सान्द्रे तपस्यास्थितः । किं ब्रूमो विधिचेष्टितानि रभसादागत्य तत्रान्तरे ___ योगी कोऽपि तमेव सिन्धुसलिलैः साकं सलीलं पपौ ॥ अत्र प्रतापविजयेन महत्त्वमिष्टं प्राप्तुं स्थितस्य वहेराश्रयेण सह प्रस्तत्वकथनानिष्टोत्पत्तेरनिष्टजननरूपो विषमालङ्कारः । अथ विषमप्रातिभव्यात्समालङ्कारो निरूप्यते । समानयोश्चेद्धटना समालङ्कृतिरुच्यते। यत्रान्योन्यानुरूपपदार्थयोः सङ्घटना क्रियते स समालङ्कारः । यथा उचिते नाराजस्य भुजे लसति मेदिनी। विटपे सहकारस्य वनप्रियवधूर्यथा ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy