SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ विलास..] अलकारप्रकरणम् । १९. अत्र भुजमेदिन्योरानुरूप्यकथनात् समालङ्कारः । अयं च विषमालकारत्रये विरूपघटनप्रतिभटः समालङ्कारः । विरुद्धकार्योदयप्रतिपक्षः स यथा बिम्बाधरारुणरुचा नझेन्द्रमनो विधाय बहुरागम् । काचन नरपतिकन्या मान्या संराजते जगति ॥ अत्र रक्तद्रव्येण रक्तद्रव्योत्पत्तेरनुगुणकार्योत्पत्तिरूपः प्राथमिकविषमालकारप्रतिभटः समालङ्कारः। तृतीयविषमालङ्कारप्रतिभटः स सर्वैरुपेक्षितः । अथ गम्यमानौपम्यप्रस्तावः। प्रकृतानामुतान्येषां तुल्यधर्मानुबन्धतः। औपम्यं यदि गम्येत सा मता तुल्ययोगिता ॥ यत्र केवलप्रकृतानां केवलाप्रकृतानां वा समानधर्मसम्बन्धादौपम्यं गम्यते सा तुल्ययोगिता । प्रकृताप्रकृतसमुदायप्रयोज्यात् दीपकाद्वैलक्षण्यं दर्शितम् । धर्मस्य च गुणक्रियारूपकतया दैविध्ये चातुर्विध्यमस्यालङ्कारस्य केचि. दूचुः । अन्ये तु द्रव्यगुणकर्मणां तदभावानां च षण्णां धर्मत्वमङ्गीकृत्य प्रकृताप्रकृतगतत्वे द्वादशविधत्वे सति अस्य द्वादशविधत्वं कल्पयन्ति । प्रकृते क्रियागुणोभयरूपधर्मान्वयो यथा नञ्जनृपालक भवतः सुगुणा वाचश्च सर्वतो मधुराः। अरुणकरदलितनीरजनिस्मृतमकरन्दविभ्रमं दधते ॥ अत्र वाचां गुणानां च माधुर्यगुणरूपैकधर्मान्वयो विभ्रमधारणरूपक्रियान्वयश्च । गुणाभावक्रियाभावधर्मान्वयो यथानिर्मुक्तमालिन्यगुणाः प्रबन्धाः कीर्तिश्च नञ्जक्षितिपालमौलेः । चरन्ति सर्वेष्वपि दिकूतटेषु श्रान्ति न विन्दन्ति तथाऽपि किश्चित् ॥ अत्र मालिन्यगुणाभावश्रान्तिलाभाभावरूपक्रियाभावधर्मान्वयः । द्रव्यतदभावरूपोभयधर्मान्वयो यथा श्रीवीरनाक्षितिपालसेनाकराब्जखङ्गा विमतश्रियश्च । विमुक्तकोशाः समुपात्तकम्पा भवन्ति खर्षीकृतहप्तभूपाः ॥ अत्र खड्गानां विमतश्रियां च कोशलक्षणद्रव्याभावधर्मान्वयखर्वीकृतइप्समहीपालात्मकद्रव्यरूपधर्मान्वयश्च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy