________________
१९८
नजराजयशोभूषणम् ।
[विलास.. अप्रकृते क्रियातद]भावात्मकधर्मान्वयो यथा
दातरि नञ्जमहीन्द्रे सुमनस्तरवः सुपर्वधेनुश्च ।
ब्रीडां वहन्ति नितरां निवसन्ति च तेन नैव भूमितले ॥ अत्राप्रकृतानां कल्पवृक्षाणां कामधेनोश्च ब्रीडावहन क्रियान्वयो भूतलनि. पासाभावात्मकक्रियाभावान्वयश्च । गुणतदभावान्वयः स यथा
वीरनाविभोर्बाहौ वहमाने महीभरम् ।
स्वैरं वशासु रज्यन्ते न विषीदन्ति दिग्गजाः ॥ अत्राप्रकृतेषु दिग्गजेषु रागात्मकगुणान्वयो विषादाभावात्मकगुणान्व. पश्च । एवमन्यदप्यूह्यम् । इहालङ्कारे गम्यमानौपम्यं विवक्षितम् न वास्तवम् ।
प्रकृतानां चेतरेषामौपम्यं गम्यते यदि ।
समानधर्मसम्बन्धाद्दीपकं तत्तु षड्विधम् ॥ प्रकृताप्रकृतसमुदायसम्बधी समानधर्मो यत्रौपम्यं दीपयति तत्र दीपकम्। अत्र समानधर्मस्यादिमध्यान्तगतत्वेन त्रैविध्ये गुणक्रियास्वरूपेण दैविध्ये षड्विधत्वं केचिदूचुः । तद्विचारचेतसां नान्तरङ्गमालिङ्गति । धर्मस्यादिमध्यान्तगतत्वेन भेदे काव्यचारुतायां विशेषादर्शनात् । अन्यथा प्रथमद्वितीयपदगतत्वप्रकारैर्भेदान्तराणि किमिति न सिध्येयुः। तस्मान्न प्राथमिकं त्रैविध्यमादरणीयम् । नाप्युत्तरं दैविध्यं वक्तुं युक्तम्, द्रव्यादिभेदेन धर्मस्य षड्विधत्वोक्तेः । तस्मात्प्रकृताप्रकृतसम्बन्धिसमानधर्मस्य द्रव्यादिभेदेन षड्विषत्वात्तदालम्बनस्य दीपकस्य षड्विधत्वं सुवचम् । तत्र गुणतदभावरूपधर्मान्वयो यथा
विशदयतो जगदेतौ विमलौ नञ्जेन्द्रकीर्तिरिन्दुश्च ।
सहते नैव तमिस्रां तिग्मकरस्तत्प्रतापश्च ॥ अत्र-कीर्तिचन्द्रयोर्विमलत्वरूपगुणान्वयः । तिग्मकरप्रतापयोः सहनाभावलक्षणगुणाभावान्वयश्च । क्रियातदभावान्वयो यथा
गम्भीरतां नञ्जमहीन्द्रचेतो वहत्यजत्रं पयसां निषिश्च । ननक्षमाचन्द्रयशश्च गङ्गापयश्च नैव त्यजतो महस्वम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com