SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ विलास. ७ ] अलङ्कारप्रकरणम् । १९९ अत्र वहनरूपक्रियायास्त्यागाभावात्मकक्रियाभावस्य चान्धयः । द्रव्यतदभावान्वयो यथाअयुक्तकान्ताजनचित्तपद्मप्रकामसङ्कोचनलब्धवर्णः । (१) कलानिधिर्नाविभुश्च चन्द्रः स्वभावतोऽनुष्णाकरो विभाति ॥ अत्र नञ्जविभुचत्द्रयोः कलारूपद्रव्यान्वयः, उष्णकराभावरूपद्रव्याभावान्वयश्च श्लेषानुप्राणितः । तदेवं दीपकानां षाविध्यम् । पदार्थगतालङ्कारद्वयनिरूपणानन्तरं वाक्यार्थगतालङ्कारद्वयमुच्यते । यत्र वाक्यद्वये वस्तुप्रतिवस्तुतया भवेत् । समानधर्मनिर्देशः प्रतिवस्तूपमा मता ॥ यत्र हि उपमानोपमेयवाक्यद्वये सामान्यधर्मः कथितपदस्य पुनरुक्तिदोषप्रस्तत्वाच्छब्दान्तरेणोपादीयमानः प्रकृताप्रकृतयोरौपम्यं गमयति सा प्रतिवस्तृपमा । इयं साधर्म्यवैधाभ्यां दृश्यते । तत्र प्रथमं यथा स्तोतव्यः कळुलेवंशः सदा वंशेषु भूभुजाम् । प्रशंसनीयः सततं पयोधिषु पयोम्बुधिः ॥ __अत्र उपमानोपमेयवाक्यद्वयवर्तिभ्यां स्तोतव्यप्रशंसनीयपदाभ्यामभिमावेव स्तुत्यहत्वरूपौ धौ स्वीक्रिमाणौ प्रकृताप्रकृतयोः कळुलेवंशपयोम्बुध्योरौपम्यं गमयतः। उपमेयोपमायां तु-औपम्यस्य वाच्यत्वम् धर्मयोश्च स्वतो भिन्नयोरेवातिशयोक्तिवशादभेदः। इह तु तदुभयवैपरीत्यमित्यनयोर्महान् भेदः । अस्य वस्तुप्रतिवस्तुभावोपजीवितया बिम्बप्रतिबिम्बभावोपजीविनो दृष्टान्तालङ्कारात् भेदः स्फुट एव । द्वितीयं यथा नजेन्द्र एव नियतं वर्धन्ते विटुषां गिरः। विना वसन्तादन्यत्र न पुप्यन्ति पिकस्वराः॥ अत्र वर्धन्ते पुष्यन्तीतिपदयोरभिन्नार्थकत्वम् । यथा वसन्तेन कोकिलानां स्वरपोषणं क्रियते तथा नझेन्द्रेण विदुषां वाचामभिवृद्धिः क्रियत इत्यनयोरौपम्यं गम्यते। 'यत्र वाक्यव्ये बिम्बप्रतिबिम्बतयोच्यते। सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निरुच्यते ॥' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy