________________
१६८
नजराजयशोभूषणम् ।
[विलास.७
यथा
औदार्य त्वयि शौर्यवद्विजयते शौर्य तथौदार्यवत्
वात्सल्यं सकलेषु तद्विजयवत्तच्चापि वात्सल्यवत् । शौयौदार्यसमस्तमर्त्यविसरद्वात्सल्यवत् सन्ततं
प्रज्ञा तानि च तद्वदुन्नतगुणस्तोमोघ नञ्जप्रभो ॥ अत्र शौर्यादीनां परस्परसादृश्यवर्णनं तृतीयसदृशव्यवच्छेदाय । इयं चोपमेयोपमा धर्मस्य साधारण्येन वस्तुप्रतिवस्तुनिर्देशेन वा वस्तुतो भिन्नयोरपि धर्मयोरभेदातिशयोक्तिमहिन्ना एकतयाऽध्यवसितयोर्वा द्वयोरुपादानेनानुपादानेन वा सम्भवति । तत्र द्वितीयं यथा
निमलकलानुषङ्गाद्विमलीकृतसकलभुवनतलः।
चन्द्र इव नञ्जनृपतिनञ्जनृपतिरिव जयति जगति चन्द्रः ॥ इत्यादि सदृशानुभूत्त्या वस्त्वन्तरस्मरणं स्मृतिमदलङ्कारः। तदुक्तम्
- 'सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते ।' इति । सदृशानुभूत्त्येति पदेन
विषमशरविशिखदलितो वीरक्ष्मापालनन्दनो नृपतिः।।
तरुणि तव विभ्रमाणां स्मरति स्मृतिमात्रदत्तकुतुकानाम् ॥ इत्यत्रानलङ्कतौ चिन्ताजन्यस्मृतौ अतिप्रसङ्गनिरासः । यथा
जेतुनञ्जमहीपतेस्त्रिजगतीजेतुः कृपाणीलतां
वेगोत्पाटितकुञ्जरव्रजशिरःसंलीढमुक्ताफलाम् । पश्यद्भिः प्रतिपक्षपार्थिवभटैः सङ्ग्रामलीलोद्भटा
दंष्ट्रकोटिकरालवक्रकुहरा काली मुहुः स्मयते ॥ ... ..अत्र मुक्ताफलादिसदृशवस्तुदर्शनहेतुकदंष्ट्रादिस्मृतिः। सदृशवस्तुसन्दशनहेतुकत्वं च सदृशवस्तुदर्शनोहुडसंस्कारजन्यत्वम् । न तु सादृश्यमूलकत्वम् । तेन . . .
मृगयासु नञ्जनृपतिनिबिड़े विपिने ससम्भ्रमं लीनान् । चकितानरीनिव मृगानवलोक्य स्मरति विजयसङ्कामम् ॥ - .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com