SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १६८ नजराजयशोभूषणम् । [विलास.७ यथा औदार्य त्वयि शौर्यवद्विजयते शौर्य तथौदार्यवत् वात्सल्यं सकलेषु तद्विजयवत्तच्चापि वात्सल्यवत् । शौयौदार्यसमस्तमर्त्यविसरद्वात्सल्यवत् सन्ततं प्रज्ञा तानि च तद्वदुन्नतगुणस्तोमोघ नञ्जप्रभो ॥ अत्र शौर्यादीनां परस्परसादृश्यवर्णनं तृतीयसदृशव्यवच्छेदाय । इयं चोपमेयोपमा धर्मस्य साधारण्येन वस्तुप्रतिवस्तुनिर्देशेन वा वस्तुतो भिन्नयोरपि धर्मयोरभेदातिशयोक्तिमहिन्ना एकतयाऽध्यवसितयोर्वा द्वयोरुपादानेनानुपादानेन वा सम्भवति । तत्र द्वितीयं यथा निमलकलानुषङ्गाद्विमलीकृतसकलभुवनतलः। चन्द्र इव नञ्जनृपतिनञ्जनृपतिरिव जयति जगति चन्द्रः ॥ इत्यादि सदृशानुभूत्त्या वस्त्वन्तरस्मरणं स्मृतिमदलङ्कारः। तदुक्तम् - 'सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते ।' इति । सदृशानुभूत्त्येति पदेन विषमशरविशिखदलितो वीरक्ष्मापालनन्दनो नृपतिः।। तरुणि तव विभ्रमाणां स्मरति स्मृतिमात्रदत्तकुतुकानाम् ॥ इत्यत्रानलङ्कतौ चिन्ताजन्यस्मृतौ अतिप्रसङ्गनिरासः । यथा जेतुनञ्जमहीपतेस्त्रिजगतीजेतुः कृपाणीलतां वेगोत्पाटितकुञ्जरव्रजशिरःसंलीढमुक्ताफलाम् । पश्यद्भिः प्रतिपक्षपार्थिवभटैः सङ्ग्रामलीलोद्भटा दंष्ट्रकोटिकरालवक्रकुहरा काली मुहुः स्मयते ॥ ... ..अत्र मुक्ताफलादिसदृशवस्तुदर्शनहेतुकदंष्ट्रादिस्मृतिः। सदृशवस्तुसन्दशनहेतुकत्वं च सदृशवस्तुदर्शनोहुडसंस्कारजन्यत्वम् । न तु सादृश्यमूलकत्वम् । तेन . . . मृगयासु नञ्जनृपतिनिबिड़े विपिने ससम्भ्रमं लीनान् । चकितानरीनिव मृगानवलोक्य स्मरति विजयसङ्कामम् ॥ - . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy