________________
विलास. ७ 1
अलङ्कारप्रकरणम् ।
१६७
मानोपमेयत्वं सा उपमेयोपमेति फलति । अत एव पर्यायेण क्रमणेत्यर्थः, तेन क्रमेण द्वयोर्यदुपमानोपमेयत्वं सा उपमेयोपमेति लक्षणम्, तथा च निरुक्तलक्षणस्य
सकलङ्कराजमण्डलकबलनतो युगपदभ्युपैतु मिथः । नञ्जविभोर सिरसितः सविषो राहुश्च सदृशतामुभयम् ॥
इत्यत्र युगपदुपमेयोपमायामेकदैवोपमानोपमेयत्वनिर्देशेन क्रमेणेत्यंशस्वाभादव्याप्तिरिति निरस्तम् । पर्यायशब्दस्य तृतीय सदृशव्यवच्छेदपरत्वात् । उक्तोपमायां निरुक्तपर्यायसत्त्वान्नाव्याप्तिशङ्का । कस्यचित्कञ्चिद्धर्ममुपजीव्य केनचित् सादृश्ये विहिते तस्यापि तेन धर्मेण तत्सादृश्यस्यार्थात् सिद्धत्वेऽपि तद्वर्णनादनयोस्तृतीयः सदृशो नास्तीति हि फलति । नचमञ्जु (डू? ) कादिभिरत्र 'पर्यायः - यौगपद्याभाव:, अत एवात्र वाक्यभेदः' इति वाक्य [ भेद ] एवोपमेयोपमोक्तेः कथं तृतीयसदृशव्यवच्छेदपरत्वमिति वाच्यम् । महाकविप्रयोगेषु यौगपद्येऽपि तस्योपलभ्यमानतया मज्जु (?)कायुक्तेरुपलक्षणपरत्वात् । यदि न तस्योपलक्षणपरत्वे किञ्चित्प्रमाणम् । तदा युगपदुपमेयोपमोदाहरणेऽपि मिथः शब्दस्यार्थपर्यालोचनया क्रमेणैव राहुखद्नयोरुपमानोपमेयत्वप्रतीतेः । मिथः सदृशतामित्यतो हि राहुसदृशता खड्गस्य खड्गसदृशता राहोश्चेति यौगपद्याभावः स्पष्टः । अतो नोक्तोदाहरणेऽव्याप्तिः । वस्तुतस्तु पर्यायेणेतिपदं न लक्षणप्रविष्टम्, वैयर्थ्यात्, स्वरूपकथनमात्रपरं तदिति द्रष्टव्यम् । न च द्वयोरुपमानोपमेयत्वरूपलक्षणमुपमालङ्कारेऽतिव्याप्तमिति वाच्यम् । उपमेयोपमायां सादृश्यस्यानुपमत्वद्योतकतृतीयसदृशव्यवच्छेद रूपोपमेयोत्कर्षफलकत्वेन कविसंरम्भगोचरतया चारुत्वापादकस्यैवाभ्युपगमात्, उपमालङ्कारे तु सादृश्यस्य सादृश्यप्रतीतिमात्रोद्देश्यककविसंरम्भगोचरतया चारुत्वापादकत्वान्नोक्तदोषः । अतएवोक्तम् — 'सादृश्यप्रतीतिमात्रोद्देश्य ककविसंरम्भगोचरीभूतचारुसादृश्यमुपमेति । वस्तुतस्तु-पर्यायेण निरुक्तार्थेन तदित्येकं लक्षणम् । द्वयोरुपमानोपमेययोस्तदित्येकं लक्षणम् । आयमुक्तमेव । अन्यतूभयप्रतियोगिकैकं सादृश्यमित्यर्थवत् । शुद्धोपमायामतिव्याप्तिवारणायोभयप्रतियोगिकेति ।
मतिरिव कीर्त्तिर्विमला कीर्त्तिरिव श्रीत्रिलोकमहनीया । श्रीरिव शुभदा वाणी विश्रुतचरितस्य वीरनञ्जविभोः ॥ इति रशनोपमायामतिप्रसङ्गा भावांपैकमित्यलं बहुना ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com