________________
नजराजयशोभूषणम्।
[विलास.. अत्रानुधावनविद्रावणात्मकतया एकस्यैवाथस्य वाक्यद्वयेन धर्मत्वेन स्वीकारात् पृथनिर्देशः। बिम्बप्रतिबिम्बभावाभ्यां यथा
सन्त्वन्ये शशिनो वंशस्त्वया ननेन्द्र दीव्यति ।
बहुरत्नोऽपि जलधिः कौस्तुभेनैव हृष्यति ॥ अत्र राजकौस्तुभयोः साहश्याच्छशिवंशजलध्योरपि सादृश्यमिति बिम्बप्रतिबिम्बभावः । अत्रापि भिन्नतया निर्देशात् पृथनिर्देशः । पुनरपि दैविध्यमस्यालङ्कारस्य, समस्तवस्तुविषया एकदेश विवर्तिनी चेति ।
समस्तवस्तुविषया यथा
वंशा भूमिभुजां विभान्ति भुवने धीराः समुद्रा यथा __ तत्ताहक कलुलेकुलं च विमलं दुग्धाम्बुराशियथा ।
श्रीमन्नञ्जमहीमहेन्द्र स भवान् पूर्णः सुधांशुर्यथा __ कीर्तिस्फूतिरियं तवाञ्चति सिता चन्द्रातपश्रीर्यथा ॥ अत्र सर्वत्रोपमानोपमेयस्वीकारात् समस्तवस्तुविषयका । एकदेशवर्तिनी यथा
नसराजनियतात्मवृत्तिभिः स्वैरिणीभिरिव काड़िता द्विषाम् ।
श्रीभिरन्धतमसैरिव द्विपैरप्यसौ निविडता रणावनी ॥ . अत्र रणावनी सङ्केत्तस्थलीवेति अर्थात्प्रतीतेरेकदेशवर्तित्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवमन्येऽप्यवान्तरभेदाः प्रेक्षावदिल्याः ।
ऐक्ये हनन्वयः प्रोक्त उपमानोपमेययोः । यत्र द्वितीयसब्रह्मचारिनिषेधद्योतनायएकस्यैवोपमानोपमेयभावः प्रतिपाचते तत्रानन्वयालङ्कारः। यथा
कलुलेकुलवाराशिसम्पूर्णहिमदीधिते । नजेन्द्र भवतः कीर्तिस्त्वत्कीतिरिव राजते ।
'पर्यायेण बयोस्तदुपमेयोपमा मता।' उपमानोपमेयवोर्डयोःपर्याषेण प्रकारान्तरेण, तृतीवसरव्यवच्छेदेनेति पावत् । तदुपमानोपमेयत्वम् । तथा च तृतीयसहशव्यवस्छेदाय योर्यदप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com