SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम्। [विलास.. अत्रानुधावनविद्रावणात्मकतया एकस्यैवाथस्य वाक्यद्वयेन धर्मत्वेन स्वीकारात् पृथनिर्देशः। बिम्बप्रतिबिम्बभावाभ्यां यथा सन्त्वन्ये शशिनो वंशस्त्वया ननेन्द्र दीव्यति । बहुरत्नोऽपि जलधिः कौस्तुभेनैव हृष्यति ॥ अत्र राजकौस्तुभयोः साहश्याच्छशिवंशजलध्योरपि सादृश्यमिति बिम्बप्रतिबिम्बभावः । अत्रापि भिन्नतया निर्देशात् पृथनिर्देशः । पुनरपि दैविध्यमस्यालङ्कारस्य, समस्तवस्तुविषया एकदेश विवर्तिनी चेति । समस्तवस्तुविषया यथा वंशा भूमिभुजां विभान्ति भुवने धीराः समुद्रा यथा __ तत्ताहक कलुलेकुलं च विमलं दुग्धाम्बुराशियथा । श्रीमन्नञ्जमहीमहेन्द्र स भवान् पूर्णः सुधांशुर्यथा __ कीर्तिस्फूतिरियं तवाञ्चति सिता चन्द्रातपश्रीर्यथा ॥ अत्र सर्वत्रोपमानोपमेयस्वीकारात् समस्तवस्तुविषयका । एकदेशवर्तिनी यथा नसराजनियतात्मवृत्तिभिः स्वैरिणीभिरिव काड़िता द्विषाम् । श्रीभिरन्धतमसैरिव द्विपैरप्यसौ निविडता रणावनी ॥ . अत्र रणावनी सङ्केत्तस्थलीवेति अर्थात्प्रतीतेरेकदेशवर्तित्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवमन्येऽप्यवान्तरभेदाः प्रेक्षावदिल्याः । ऐक्ये हनन्वयः प्रोक्त उपमानोपमेययोः । यत्र द्वितीयसब्रह्मचारिनिषेधद्योतनायएकस्यैवोपमानोपमेयभावः प्रतिपाचते तत्रानन्वयालङ्कारः। यथा कलुलेकुलवाराशिसम्पूर्णहिमदीधिते । नजेन्द्र भवतः कीर्तिस्त्वत्कीतिरिव राजते । 'पर्यायेण बयोस्तदुपमेयोपमा मता।' उपमानोपमेयवोर्डयोःपर्याषेण प्रकारान्तरेण, तृतीवसरव्यवच्छेदेनेति पावत् । तदुपमानोपमेयत्वम् । तथा च तृतीयसहशव्यवस्छेदाय योर्यदप Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy