SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ विलास. ७] अलङ्कारप्रकरणम् । १६५ एताः केवलधर्मानुक्तौ पञ्चोपमाः कथिताः । आधारकर्तृकर्मक्यचाक्यङा च कर्तरि च ॥ कर्मणि णमुला च तथा किपा च धर्माद्यदर्शनतः । अनुक्तधर्मेवादिः स्यात् सप्तधा परिकीर्तिता। तथोपमितवृत्त्या च धर्मेवार्थस्य लोपतः ॥ एका लुप्तोपमाऽनुक्तधर्मेवादिरितीरिता। उपमानमात्रलुप्ता वाक्यसमासावगाहिनी द्विविधा । धर्मोपमानलुप्ता द्विविधा प्रागुक्तमार्गेण ॥ केवलवाचकलुप्ता वाचकधर्मोपमानलुप्तेति । लुप्तोपमालतियासु भेदा एकोनविंशतिः । पूर्णाः षष्ठोपमा एताः पञ्चविंशतिरीरिताः ॥ एकस्यैवोपमेयस्यानेकोपमानोपादाने मालिकोपमा । यथा कल्हारगुच्छन्त्यपि कुडमन्ति प्रवालहारन्ति च यावकन्ति । चाम्पेयमाल्यन्ति च दिग्वधूनां नञ्जक्षितीन्द्रस्य भुजप्रतापाः॥ इयचोपमा वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेनापि सम्भवति । एकस्यैव धर्मस्योपमानोपमेयगतत्वेन पवयेनोपादानं वस्तुप्रतिवस्तुभावः । द्वयोधर्मयोभिन्नशब्देनाभिधानं बिम्बप्रतिबिम्बभावधर्मस्योपादानमपिद्विविधा भवति सकृन्निर्देशपृथनिर्देशाभ्याम् । धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः सकृन्निर्देशः । बिम्बप्रतिबिम्बभावाभ्यां वस्तुप्रतिवस्तुभावाभ्यां वा धर्मनिर्देशः पृथनिर्देशः । तत्र सन्निर्देशो यथा- हिमांशुमिव नजेन्द्रं भुवनोल्लासदायिनं । सागरा इव गम्भीराः सेवन्ते सततं जनाः ॥ अत्र भुवनोल्लासदायिनमिति गम्भीरा इति च उभयत्रापि एकदा धर्मनिर्देशात् सकृनिर्देशः। द्वितीयो वस्तुप्रतिवस्तुभावेन यथा....... विद्रावितो विपक्षाणां पुञ्जो नआन्दुना भृशं । . : नितान्तं तमसां स्तोमः सूर्येणैवानुधावितः ॥ . ... . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy