SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १६४ नजराजयशोभूषणम् । [विलास.७ नझेन्द्र त्वत्कृपाणेन समः क्रूरो न दृश्यते । स्मृतमात्रेऽपि यच्चित्तं स्तम्भयत्यरिभूभृताम् ॥ अत्रोपमानस्यानुपादानादुपमानलुप्ता वाक्यगता । समासगता यथा नजेन्द्रसदृशो दाता न कापि श्रूयते जनैः । येन विस्मारिताः कर्णमन्दारसुरधेनवः ॥ नञ्जेन्द्रसदृश इति समासगतेयमुपमानलुप्ता। अनुक्तधर्मोपमाना वाक्यगता यथा नञ्जक्षमाचन्द्र तवैव कान्त्या समं न किञ्चिजगतीतलेऽस्मिन् । यत्सङ्गभाजः सकलास्तटिन्यः कपर्दमैशं युगपद्विशन्ति ॥ अत्र गङ्गाव्याजेन स्वयं कपद प्रविशन्तोत्यर्थः । सैव समासंगता यथा न कापि नञ्जक्षितिपालमौले वीरस्य दोर्दण्डसमानमास्ते । अभूतपूर्वान् भुवि यत्प्रभावान् आबालगोपं मनुजाः स्तुवन्ति ॥ पूर्वोदाहरणद्वये क्रूर इति दातेति शब्दाभ्यां क्रौर्यदातृत्वरूपसाधाभ्युयगमः । अनन्तरोदाहरणद्वये तु धर्मस्याप्यनुपादानम् । एषु च त्रिषूदाहरणेषु न प्रतीपालङ्कारशङ्का । उपमानस्याक्षेपाभावात् उपमेयस्याप्याधिक्य न विवक्षितम् । यत्रोपमेयाधिक्यविवक्षया उपमानत्वमुच्यते तत्र प्रतीपालङ्कारः। अनुक्तेवादिः समासगा लुप्ता यथा शुभ्रांशुशुभ्रया कीर्त्या रञ्जितो नञ्जभूपतिः । दोष्णा लालयति श्यामामवनीमचलस्तनीम् ॥ इयं केवलवाचकलुप्ताधर्मोपमानवाचकलुप्ता यथा विभाति राजराजश्री:रनञ्जमहीपतिः। यस्मै स्पृहयते देवः कलाधरकलाधरः॥ अत्र राजराजश्रीः राजराजनिष्ठश्रीरिव श्रीयस्य स इति 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्चे'त्यनेन उपमानवाचकवर्मलोपादुपमानवाचकवर्मलुप्ता। वाक्यसमासगते द्विविधा श्रौतीयमार्थी तु। तद्धितवाक्यसमासावगाहिनीति त्रिधा ज्ञेया ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy