________________
विलास. ७]
अलङ्कारप्रकरणम् ।
१६३:
अत्र रत्नाकरायत इति रत्नाकरवदाचरतीति कर्तृक्यचो (ङो ?) लोपात् कर्तृक्यचा (ङा?) लुप्ताऽनुक्तधर्मेवादिः । कर्तृणमुला यथा
हिमांशुवंशरत्नस्य नजेन्द्रस्य मुखाम्बुजे । कटाक्षा हरिणाक्षीणां भृङ्गचारं चरन्ति हि ॥
अत्र भृङ्गचारं चरन्तीति 'उपमाने कर्मणि चेति सूत्रस्थचशब्देन कर्त्तरि च णमुलो विधानात् कर्तृणमुला लुप्तानुक्तधर्मेवादिरियम् ।
कर्मणमुला यथा
आलोकयन्त्यो नृपतिं नवेन्द्रं नलिनेक्षणाः । पलालदर्श पश्यन्ति साक्षादपि मनोभवम् ॥ अत्र पलालदर्श पश्यन्तीति कर्मणमुला लुप्ताऽनुक्तधर्मेवादिरियम् ॥ किपा यथा
श्रीवीरनञ्जराजेन्द्रं पश्यन्तीनां मृगीदृशाम् । आग्नेयास्त्रन्ति कुसुमान्यङ्गारन्तीन्दुकान्तयः ॥
"
अत्राग्नेयास्त्रन्ति अङ्गारन्तीत्युभयत्रापि तद्वदाचरन्तीति 'उपमानादाचार" इत्यधिकारे 'सर्वप्रातिपदिकेभ्यः किव्वा वक्तव्य' इति किपो विधानात् तस्य सर्वापहारिणि ( सर्वप्रकारेण लोपेन ? ) समानधर्मस्य वाचकेवशब्दस्य च लोपात् किपा लुसानुक्तधर्मेवादिरियम् ।
क्यचि णमुलि चानुक्तेवादिः, क्विप्यनुक्तधर्मेवादिरिति केचित् । ननु लुप्तप्रत्ययप्रकृतिः प्रत्ययार्थमपि व्रत इति न्यायेन किलोपेऽपि प्रकृतिमहित्रैवाचारस्य गम्यमानत्वात् सति सदृशे धर्मे कथं धर्मलुप्तेतिचेत्सत्यम् । वाचकमत्ययलोपात् वाच्यलोप इत्युपचारात् । अथवा प्रकृतिलुप्तस्य धर्म वाचिनो बालोपाद्धर्मलोप (?) इति न दोषः । अनुक्तधर्मेवादिरुपमितसमासेन यथा
देवराजाभिनन्द्येन वैभवेन विभूषितः ।
-
विभाति विश्वविख्यातो नवेन्द्रो राजचन्द्रमाः ॥
अत्र राजचन्द्रमा इत्युपमितसमासेन धर्मलोपात् समानधर्मानुसधर्मेवादिरियम् ।
अनुक्तोपमाना वाक्यगता यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com