SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ विलास. ७] अलङ्कारप्रकरणम् । १६३: अत्र रत्नाकरायत इति रत्नाकरवदाचरतीति कर्तृक्यचो (ङो ?) लोपात् कर्तृक्यचा (ङा?) लुप्ताऽनुक्तधर्मेवादिः । कर्तृणमुला यथा हिमांशुवंशरत्नस्य नजेन्द्रस्य मुखाम्बुजे । कटाक्षा हरिणाक्षीणां भृङ्गचारं चरन्ति हि ॥ अत्र भृङ्गचारं चरन्तीति 'उपमाने कर्मणि चेति सूत्रस्थचशब्देन कर्त्तरि च णमुलो विधानात् कर्तृणमुला लुप्तानुक्तधर्मेवादिरियम् । कर्मणमुला यथा आलोकयन्त्यो नृपतिं नवेन्द्रं नलिनेक्षणाः । पलालदर्श पश्यन्ति साक्षादपि मनोभवम् ॥ अत्र पलालदर्श पश्यन्तीति कर्मणमुला लुप्ताऽनुक्तधर्मेवादिरियम् ॥ किपा यथा श्रीवीरनञ्जराजेन्द्रं पश्यन्तीनां मृगीदृशाम् । आग्नेयास्त्रन्ति कुसुमान्यङ्गारन्तीन्दुकान्तयः ॥ " अत्राग्नेयास्त्रन्ति अङ्गारन्तीत्युभयत्रापि तद्वदाचरन्तीति 'उपमानादाचार" इत्यधिकारे 'सर्वप्रातिपदिकेभ्यः किव्वा वक्तव्य' इति किपो विधानात् तस्य सर्वापहारिणि ( सर्वप्रकारेण लोपेन ? ) समानधर्मस्य वाचकेवशब्दस्य च लोपात् किपा लुसानुक्तधर्मेवादिरियम् । क्यचि णमुलि चानुक्तेवादिः, क्विप्यनुक्तधर्मेवादिरिति केचित् । ननु लुप्तप्रत्ययप्रकृतिः प्रत्ययार्थमपि व्रत इति न्यायेन किलोपेऽपि प्रकृतिमहित्रैवाचारस्य गम्यमानत्वात् सति सदृशे धर्मे कथं धर्मलुप्तेतिचेत्सत्यम् । वाचकमत्ययलोपात् वाच्यलोप इत्युपचारात् । अथवा प्रकृतिलुप्तस्य धर्म वाचिनो बालोपाद्धर्मलोप (?) इति न दोषः । अनुक्तधर्मेवादिरुपमितसमासेन यथा देवराजाभिनन्द्येन वैभवेन विभूषितः । - विभाति विश्वविख्यातो नवेन्द्रो राजचन्द्रमाः ॥ अत्र राजचन्द्रमा इत्युपमितसमासेन धर्मलोपात् समानधर्मानुसधर्मेवादिरियम् । अनुक्तोपमाना वाक्यगता यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy