________________
१६२ नजराजयशोभूषणम् ।
[विलास. ७ अनुक्तधर्मवाक्यगता श्रौती लुप्ता यथावीरक्षमापालतनूभवस्य नञ्जक्षितीन्द्रस्य मुखं मृगाक्ष्यः । मुहुर्मुहुश्चन्द्रमिवावलोक्य यथेन्दुकान्तप्रतिमास्तथैव ॥
चन्द्रमिवेत्यत्र-इवेन समासात् समासगता चेयमेव । उभयत्र साधारणधर्मानुपादानाद्धर्मलुप्ता । तत्र स्थलद्वयेऽपि सादृश्यवाचकपदप्रयोगाच्छ्रौती । सा च समासवाक्यगता द्विविधैव । सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादानेनान्वयसौकर्यादनुक्तधर्मातद्धिनगता श्रौती लुप्ता नास्त्येव । कल्पबादिप्रयोगे तु आर्येव । अनुक्तधर्मा वाक्यसमासतद्धितगता चेति त्रिविघाऽप्यार्थी यथा
कल्पद्रुकल्पं शशिनः कुलीनं नञ्जक्षितीन्द्रं सुधया सवर्णैः । नवैः प्रबन्धैरभिनन्दयन्तः कुबेरतुल्याः कवयो भवन्ति ।
कल्पद्रुकल्पमित्यत्र तद्धितगता । सुधया सवर्ण इत्यत्र वाक्यगता। कुबेरतुल्या इत्यत्र समासगता । सर्वत्र धर्मानुपादानात् साक्षात्सादृश्यवाचकयथेवादिपदप्रयोगाभावाच धर्मलुप्ताऽऽर्थीयम् । तदित्यं पश्चप्रकारा केवलधर्मलुप्ता। अनुक्तधर्मवादिः क्यचा लुप्ता यथा
नजेन्द्र भवतश्चापगलद्वाणोद्धतानिलाः।
पकतालफलीयन्ति मस्तकेषु विरोधिनाम् ॥ अत्र पक्कतालफलीयन्ति-पकतालफलेष्विवाचरन्तीत्यर्थः । अत्राधिकरणाचेति वक्तव्यमिति विहितक्यचा लुप्तानुक्तधर्मेवादिः।
कर्मक्यचा लुप्ता यथायानिन्धनीयत्यरिभूपवर्गान् नाक्षितीन्दो तव कोपवहिः। तेष्वेव नम्रेषु पुनस्त्वदीया सुधातरङ्गीयति वीक्षणश्रीः॥
अत्र इन्धनीयति-इन्धनानिवाचरतीत्युपमानादाचार इति विहितकर्मक्यच्यत्ययलुप्सानुक्तधर्मेवादिः । अत्रैव सुधातरङ्गीयति सुघातरङ्गमिवात्मानमाचरतीति कर्तृक्यचालोपात् कर्तृक्यचूलुप्तानुक्तधर्मेवादेरिदमेवोदाहरणम् । क्यचि(डा?) यथा
श्रीवीरनाराजस्य प्राणिमात्रे दयारसः। राकेन्दुबिम्बकिरणकान्तरत्नाकरायते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com