SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १६१ विलास. ७ ] अलङ्कारप्रकरणम् । साक्षात्सादृश्यवाचकयथेवादिशब्दानां प्रयोगे श्रौती । धर्मिव्यवधानेन सादृश्यप्रतिपादकानां सदृशसङ्काशप्रतीकाशपदानां प्रयोगे आर्थी । ननु यथेवादिशब्दानामुपमानविशेषणतया न सादृश्यप्रतिपादनपटीयस्त्वमिति चेन्मैवम् । शब्दशक्तेस्तादृशत्वाद्यथा राजशब्दशिरोगता षष्ठी पुरुषमाक्षिपन्ती तदुभयनिष्ठसम्बन्धबोधने हिन पर्यनुयोगार्हा । तथेवादयोऽपि । वतौ तु विशेषः । 'तत्र तस्येवेति सूत्रोक्तवतिः साक्षात्सादृश्यप्रतिपादकेवार्थत्वात्तत्रैव श्रौती । 'तेन तुल्यमित्यत्र वतिस्तुल्यं प्रतिपाद्य तनिहाय सादृश्यमाक्षिपतीति तत्रार्येव । द्विविधाऽपि सा वाक्यसमासतद्धितगतत्वेन त्रिविधा। [ एवं च] सति पूर्णोपमा श्रौती आर्थी चेति षट्प्रकारा। तत्र समासगता श्रौती पूर्णोपमा यथा शक्रइव शौर्यमहितो रघुपतिरिव सत्यभाषणैकरुचिः । धनदइव सम्पदधिकः नेता नञ्जक्षितीश्वरो जयति ॥ शक्रइवेत्यादौ इवेन सह नित्यसमासः। वाक्यगता श्रौती पूर्णोपमा यथा यथा कर्णे यथा कल्पद्रुमे चिन्तामणौ यथा । तथा वदान्यता भाति महिता नञ्जभूवरे । तद्धितगता श्रौती पूर्णोपमा यथा विभाति वीरनञ्जेन्दौ कीर्तिः कल्पमहीजवत् । अहर्निशमनेकार्थविश्राणनविचक्षणे ॥ समासगता वाक्यगता तद्धितगता चेति त्रिविधाऽप्यार्थी यथा-त्वत्कीर्तिःपरितो विभाति धवला राकेन्दुसंवादिनी त्वं शौर्येण धनञ्जयेन सदृशो नचक्षमावल्लभ । सन्त्राणे शरणार्थिनामनुदिनं त्वं रामवद्राजसे भूपाला बहवो भवन्तु भवता भूरद्य राजन्वती ॥ अत्र राकेन्दुसंवादिनीति समासगता । धनञ्जयेन सदृश इत्यत्र वाक्यगता । रामवदित्यत्र साम्या(समाना?)र्थकवतिप्रत्ययस्वीकारात् तद्धितगता आर्थी । एषूदाहरणेषु उपमानोपमेयसाधारणधर्मप्रतिपादकानां प्रयोगात पूर्णोपमात्वम् । अथ लुप्तोपमाया उदाहरणानि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy