________________
१६०
नजराजयशोभूषणम् ।
[विलास. ७ निराकुर्वतीत्यर्थः । उचितास्फीता । मातद्-मतति सदा गच्छतीति उचितस्फीतमातन्ती । यशश्रीः यशसः परिपूर्तिः तासामीः-लक्ष्मीः । मित्रामित्रजनेषु यथोचितं शैत्योष्णत्वरूपेण अधिकप्रसारिणी यशोव्यापारकान्तिरित्यर्थः । मा तव शस्ता प्रशस्ता सर्वजनसन्नुतत्वेन प्रसिद्धत्यर्थः ।
एवं चक्रवन्धकोशबन्धमञ्जीरबन्धादयोऽप्यूह्याः।
अर्थालङ्काराः। तत्र प्रथममनेकालङ्कारबीजत्वा दुपमा निरूप्यते।
साधर्म्य लोकसिद्धेन भिन्नेन कविसम्मतम् ।
यदेकवाक्यवाच्यं स्यात् प्रकृतस्य मतोपमा ॥ प्रकृतस्य वदनादेस्ततो भिन्नेन राकासुधाकरादिना लोकसिद्धेनैकवाक्या प्रतिपाद्यं कविसमयसम्मतं कान्तिमत्त्वादिभिर्यत्साधय समानधर्मसम्बन्धः सउपमा । तत्र लोकसिद्धपदेनोत्प्रेक्षा व्यवच्छिद्यते । तत्र उपमानस्य कविप्रौढोक्तिसिद्धत्वात् । भिन्नपदेनानन्वयालङ्कारनिरासः। तत्र एकस्यैवोपमानोपमेयभावालिङ्गितत्वात् । वाच्यमित्यनेन गम्यौपम्यरूपकादिव्यवच्छेदः । कविसम्मतमित्यनेन 'कुमुदमिव वदनम् ' कारणविव कार्यम् इत्यादीनां हीनोपमादीनां च निरासः । नहि तत्र उपमानोपमेयभावः कविसम्मतः । न च कार्यकारणयोः साधर्म्यमेव नास्तीति शङ्कनीयम्। 'कारणगुणा हि कार्यगुणानारभन्ते' इति न्या. येन तत्रापि साधर्म्यस्य सम्भवात् । तत्र साधर्म्य कविसमयसम्मतैरेव कान्त्या दिभिः स्वीकरणीयम् । एकवाक्यवाच्यमित्यनेनोपमेयोपमालङ्कारव्यावृत्तिः । तस्य वाक्यत्वे (वय ?) गोचरत्वात् । तच एकेनैवाश्लिष्टेन वा पदेनोपादेयम् । शिलष्टपदोपादानेऽपि न श्लेषशङ्कातडूः । स्वतो भिन्नयोरपि धर्मिणोः शिष्टपदो: पादानेन भेदे सत्यपि अभेदरूपातिशयोक्तिबलादेकस्मिन्पथि पान्यतयाऽनुगतै. कधर्मत्वेनाङ्गत्वात् । तथा च एतादृशस्थले श्लेषप्रतिभोहोधितातिशयोत्तयनुप्रा. णितोपमा।
पूर्णलुप्ताप्रकाराभ्यां सा तावद्विविधा भवेत् । उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानां चतुर्णा प्रयोगे पूर्णा । तेषामेकद्वित्रिलोपे लुप्ता।
श्रौतीत्यार्थीतिभेदेन पूर्णा सा दिविधा मता।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com