Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute

View full book text
Previous | Next

Page 216
________________ विलास. ७ 1 अलङ्कारप्रकरणम् । १६७ मानोपमेयत्वं सा उपमेयोपमेति फलति । अत एव पर्यायेण क्रमणेत्यर्थः, तेन क्रमेण द्वयोर्यदुपमानोपमेयत्वं सा उपमेयोपमेति लक्षणम्, तथा च निरुक्तलक्षणस्य सकलङ्कराजमण्डलकबलनतो युगपदभ्युपैतु मिथः । नञ्जविभोर सिरसितः सविषो राहुश्च सदृशतामुभयम् ॥ इत्यत्र युगपदुपमेयोपमायामेकदैवोपमानोपमेयत्वनिर्देशेन क्रमेणेत्यंशस्वाभादव्याप्तिरिति निरस्तम् । पर्यायशब्दस्य तृतीय सदृशव्यवच्छेदपरत्वात् । उक्तोपमायां निरुक्तपर्यायसत्त्वान्नाव्याप्तिशङ्का । कस्यचित्कञ्चिद्धर्ममुपजीव्य केनचित् सादृश्ये विहिते तस्यापि तेन धर्मेण तत्सादृश्यस्यार्थात् सिद्धत्वेऽपि तद्वर्णनादनयोस्तृतीयः सदृशो नास्तीति हि फलति । नचमञ्जु (डू? ) कादिभिरत्र 'पर्यायः - यौगपद्याभाव:, अत एवात्र वाक्यभेदः' इति वाक्य [ भेद ] एवोपमेयोपमोक्तेः कथं तृतीयसदृशव्यवच्छेदपरत्वमिति वाच्यम् । महाकविप्रयोगेषु यौगपद्येऽपि तस्योपलभ्यमानतया मज्जु (?)कायुक्तेरुपलक्षणपरत्वात् । यदि न तस्योपलक्षणपरत्वे किञ्चित्प्रमाणम् । तदा युगपदुपमेयोपमोदाहरणेऽपि मिथः शब्दस्यार्थपर्यालोचनया क्रमेणैव राहुखद्नयोरुपमानोपमेयत्वप्रतीतेः । मिथः सदृशतामित्यतो हि राहुसदृशता खड्गस्य खड्गसदृशता राहोश्चेति यौगपद्याभावः स्पष्टः । अतो नोक्तोदाहरणेऽव्याप्तिः । वस्तुतस्तु पर्यायेणेतिपदं न लक्षणप्रविष्टम्, वैयर्थ्यात्, स्वरूपकथनमात्रपरं तदिति द्रष्टव्यम् । न च द्वयोरुपमानोपमेयत्वरूपलक्षणमुपमालङ्कारेऽतिव्याप्तमिति वाच्यम् । उपमेयोपमायां सादृश्यस्यानुपमत्वद्योतकतृतीयसदृशव्यवच्छेद रूपोपमेयोत्कर्षफलकत्वेन कविसंरम्भगोचरतया चारुत्वापादकस्यैवाभ्युपगमात्, उपमालङ्कारे तु सादृश्यस्य सादृश्यप्रतीतिमात्रोद्देश्यककविसंरम्भगोचरतया चारुत्वापादकत्वान्नोक्तदोषः । अतएवोक्तम् — 'सादृश्यप्रतीतिमात्रोद्देश्य ककविसंरम्भगोचरीभूतचारुसादृश्यमुपमेति । वस्तुतस्तु-पर्यायेण निरुक्तार्थेन तदित्येकं लक्षणम् । द्वयोरुपमानोपमेययोस्तदित्येकं लक्षणम् । आयमुक्तमेव । अन्यतूभयप्रतियोगिकैकं सादृश्यमित्यर्थवत् । शुद्धोपमायामतिव्याप्तिवारणायोभयप्रतियोगिकेति । मतिरिव कीर्त्तिर्विमला कीर्त्तिरिव श्रीत्रिलोकमहनीया । श्रीरिव शुभदा वाणी विश्रुतचरितस्य वीरनञ्जविभोः ॥ इति रशनोपमायामतिप्रसङ्गा भावांपैकमित्यलं बहुना । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330