Book Title: Munishwar suri krut Pramansar
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
28
अनुसंधान-२५ वासनां दत्वा अलक्तद्रवभावितबीजे कप्पासे रक्तता यथा, दग्धे 'रामठे परिमलो यथा । तथा चामनन्ति-अपर एवात्मा अवतातरीति ! तथा सति प्राकृतोपभोगोऽपरस्य कथंकारं प्राग्भवे स्मारं स्मारं दत्तमादत्ते कथमिति । येनाऽनित्यात्मना सुकृतं कृतं स तावच्चौरंकारं पलायितः । परकृतं कोऽयमपरः सम्बन्धविनाकृतो लभते ? । यः सापराधः स एव दण्ड्यो अत्र न तु माछ्यो (त्स्यो) न्यायः ॥ क्षणान्तरोत्पन्न आत्मा स्वकृतमेवोपभुङ्क्ते, न तु परकृतम् । अथ यत्तु(त्त)दस्तु नाम । अनित्यात्मगता सा वा वा(वासना)ऽऽत्मनो भिन्नाऽभिन्ना वा ? । भिन्ना चेत् कथं तस्येति सा ? | अभिन्ना चेत्, सा नित्यानित्या वा ? । नित्या चेत् स्वपदे कुठारप्रहारः । प्रतिज्ञाहानि म निग्रहस्थानम् । अनित्या चेत्, सा कौतस्कुती सहैवाऽत्मना वराकी काकीव करतालीभिस्त्रासितैव ।। अथ क्षणिकात्मा सान्वयं निरन्वयं वा विनश्यति ? । सान्वयं चेत्, तहि समूलकाषंकषित एव । द्वारिकादाहे सन्देसा(शा)पकसन्देहवत् तत्र[न] कोऽपि क्षणान्तरभावी । सोऽयं ताथागतधर्मकीर्तेः पन्था दुस्तरः । का गतिस्तावदस्य ? । अथ क्षणिकात्मा निरन्वयं विनश्यति । अन्वयरूपां वासनां दत्वा क्षणान्तरभावी भवति चेत् । ननु धर्मोत्तरवादिस्तव सन्धासम्बन्धाभिसन्धिरिति ।। यत् किलात्मा क्षणविनाशी । अन्वयरूपा वासना तिष्ठति । सा वासनापरम्परां प्रवर्तयतीति नूनं नित्यानित्यगुण गणोपभोगभाक् स एवात्मा। अन्धभुजङ्गरन्ध्रेमिव । यथाऽन्धो भुजङ्गो यत्र तत्र भ्रान्त्वा सरलस्वरन्ध्रमेव विशति । परैः पक्षान्तरे७ जिनमतमेवाऽऽश्रितम् ||
मनस्ते कुत्रचिद् यातु वपुस्ते वर्तते नवा । ____ यदेवार्थक्रियाकारि तदेव परमार्थसत् इति।। सौगत- वृषष्यन्ती प्रतिवादिषिङ्गवाग्भिरपि प्रस्तुतार्थः समर्थितः स्यादेव ।।
किञ्च - सत्त्वस्याऽनन्तधर्मात्मकत्वं भूयः प्रतिजानीते जैनः । नन्वेकान्तनित्यानित्यस्य क्रमाऽक्रमाभ्यां ह्यर्थक्रियाकारित्वं न घटते । एकान्तनित्यानित्यो भाव: क्रमेणार्थक्रियां कुर्यादक्रमेण वा ? । क्रमो हि पौर्वापर्यम् । पाकक्रियायामधिश्रयणादिका क्रिया पूर्वभागः । निष्पन्नमित्यपरभागः । तत्रैकान्तनित्यस्य पूर्वापरभागौ न घटेते ! अवस्थाभेदतोऽनित्यताप्रसक्तेरिति । १. हिङ्गु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26