Book Title: Munishwar suri krut Pramansar
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
42
अनुसंधान-२५
एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः ।।१।। पिब खाद चयातिशोभने ! यदतीतं वरगात्रि ! तन्न ते ! न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥२॥ किञ्च- पृथ्वी जलं [तथा]तेजो वायुभूतचतुष्टयम् ।
चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥३॥
किं च - नानाकारं जगत् भ्रान्तिमात्र, मरुमरीचिकानिचयाम्बवत् । पृथिव्यप्तेजोवायुरूपभूतचतुष्टयसमवायतश्चैतन्यम् । यथा धातुकीप्रसूनगुडद्रवसंयोगादुन्मादवत् । नास्तिकोऽसौ सर्वापलापी वृथाप्रलापी पापीयान् सर्वैरपि सत्तावादिभिः अभू(भि?)भूय च सम्भूय कैमुतकन्यायेन जैनेनापि निर्वास्य इति सिद्धः षड्दर्शनसमुच्चयतात्पर्यार्थः ॥
इति प्रमाणसारे प्रस्तावागतदर्शनव्यवस्थास्वरूपप्ररूपकस्तृतीयः परिच्छेदः ॥ इति स्वोपज्ञः प्रथमादर्शः ॥ भद्रं भवतु ॥
टिप्पणानि । पाठान्तराणि । १. ४ नमः परमात्मने । २. तदिदमाः किमेतकन्न । ३. प्रोक्तस्तार्किक० । ४. 'सभिप्रायम्' इति टि. । ५. प्रमाणं, तद्धि प्रमिणोतीति प्रमाता वा प्रमाणम् । ६. 'आत्मा' इति टि. । ७. विलक्षणं तद्वेदितव्यं । ८. तं । ९. स्त्यानीभूते । १०. 'चार्वाकमत' इति टि. । ११. द्वैतीयीकं १२. 'अद्वैतपक्षः पुनः' इति टि. । १३. 'कणे मनस् तृप्तौ, तृप्तिं कृत्वा' टि. । १४. 'विषयमात्रग्राहकमेव तत् प्रत्यक्षं न तु प्रमाणभूतं' टि. । १५.
सत्ताकौटिकुटीरकमटा० । १६. 'विधीयते' टि. । १७, 'व्रात्यः संस्कारवर्जितः कथं चतुर्वेदज्ञाता' टि. | १८. 'यो यो यज्ञोपवीतधारी स ब्राह्मणः' टि. । १९. केन संदृष्टा दृष्टा० । २०. ०ज्ञानमेव युक्त्यन्तरेण स्वीकृतं । २१. अत्यन्तव्या० । २२. चाऽनु० । २३. गोत्वं गोत्वमिति । २४. ०मेव हि भेदो० । २५. ०गुणोपभोग० । २६. ०रन्ध्रगमिव । २७. पक्षान्तरेण । २८. वृषष्यन्ती । २९. सदेव सत् दु० । ३०. असमवायकारणं । ३१. समवाय० । ३२. असमवाय० । ३३. प्रतीक्ष्यते । ३४. कमधिकृत्य । ३५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26