Book Title: Munishwar suri krut Pramansar
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - २५
तत्र तर्क ऊहापरनामा विचार इति यावत् । कालत्रयवत्तिनोः साध्यसाधनयोरविनाभावसम्बन्धव्याप्त्या वाच्यवाचकविषयाविष्करणम्, इदमस्मिन् सत्येव भवतीत्याकारं वेदनं, तर्क ऊह इति संज्ञान्तरं लभते । ये तु ताथागता ऊहस्य प्रामाण्यं नोहांचक्रिरे, घटपटादिरित्यपोहमात्रम्, तेषामशेषशून्यत्ववादस्य निरवकाशत्वापत्तेः । आः । किमिदमकाण्डकूष्माण्डाडम्बरोड्डामरमभिधीयते ? 1 तावच्छृणु, श्रावयामि ।
तर्कस्तावदनुमानप्रामाण्यस्य प्राणाः । अनुमानं तु प्रत्यक्षप्रमाण
36
प्रामाण्यप्राणाः ।
प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः ।
प्रमाणान्तरसद्भावः प्रतिषेधाश्च कस्यचित् ॥ इत्याहुः ||
ऊहस्तावत् सामान्यविशेषात्मकवस्तुनः सम्बन्धालम्बनम् । तैस्तु प्रमाणज्ञानविनाकृतैः पदार्थापोहः प्रोच्यते । अत एवाऽयमलब्धपरमार्थः शून्यवादी" प्रसिद्धः । ऊहसिद्धिरित्यनुमानविशेषलक्षणं, सामान्यलक्षणं तु साधनात् साध्यविज्ञानमनुमानं प्रसिद्धमिति ॥
आगमो ह्याप्तवचनमातिं दोषक्षयं विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद् हेत्वसम्भवात् ॥
इत्यासवचनादाविर्भूतमर्थसंवेदनमागमः । उपचारादाप्तवचनं च । अभिधेयं वस्तु यथावस्थितं यो जानीतेऽवञ्चकः स आसः । स च द्वेधा - लौकिको लोकोत्तरश्च । लौकिको जनकादिः । लोकोत्तरस्तु तीर्थकरादिः । इति कालत्रयप्रमातृप्रवक्तृप्ररूपितस्यागमस्य सिद्धिः ॥ प्रमाणसङ्ख्या- विप्रतिपत्तिरपास्ता ||
अथ प्राचीनोत्तराकारपरित्यागोपादानेनानुगतप्रतीत्या, तस्य विषयश्च सामान्यविशेषाद्यनेकात्मकं वस्तु, ह्यर्थक्रिया सामर्थ्याऽन्यथाऽनुपपत्तेः । सामान्यं द्विप्रकारं तिर्यगूद्धतासामान्यभेदात् । गोत्र १ साधारण २ जातित्वात् ॥ विशेषोऽपि द्विरूपो गुणः पर्यायश्च । ज्ञानादिः सहभावी गुणः । सुखदुःखनरनारकादिः क्रमभावी पर्यायः । इति निरस्ता तद्विषयविप्रतिपत्तिः ॥
यत् प्रमाणेन साध्यते तदस्य फलम् ॥ नैगम १ सङ्ग्रह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरूढ ६ एवम्भूता: ७ सप्त नयाः ॥ अस्य नयस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26