Book Title: Munishwar suri krut Pramansar
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
35
September-2003
उत्पन्ने ज्ञाने विशदत्वमेव, न त्विन्द्रियतृतिः । अस(श)नायोदन्ययोराहारेणैव तुष्टिः । ज्ञानं ह्यात्मगुणः, आहारसंज्ञा तु शरीरस्य । क्षुधोदन्ये हि वेदनामुत्पादयतः । शातावेदनीयशेषमस्तीति चेत् । अतो वेदनीयान्तर्भूते एते, नैव मोहनीयकर्मप्रकृती । इति केवलिभुक्तिः ॥
स्त्रीवेदमर्जितं कर्म, स्त्रीपुंसावात्मकर्मक्षये हि मुच्यते । आत्मा ह्युभयत्र समान एवेति स्त्रीमुक्तिः ।।
महाव्रतिनां हि द्वधा नयः - निश्चयो व्यवहारश्च । व्यवहारनयः समवसरणादिभिजनैरपि स्वीकृतः । व्यवहारनये हि प्रतिष्टार्थं भवत्प्रव्रजितादिभिर्वस्त्रप्रावरणमाद्रियते गुरुभिर्न 1 कोऽयं गुरुशिष्यन्यायः ? । छास्थैस्तु तीर्थंकरातिशयस्पृहा तु स्वप्नेऽपि दुर्लभ्या । व्रीडापदं ह्युभयत्र समानमेवेति सिद्धा वस्त्रप्रतिष्ठा ॥ इति प्रस्तावागताः प्रकटं दिक्पटा: परिचये पर्यनुयोज्याः ॥
अथाऽस्पष्टं परोक्षम् । स्मरण १ प्रत्यभिज्ञान२ तर्का३ऽनुमाना ४ गम ५ भेदतस्तत् पञ्चप्रकारम् । तत्र नैयायिकाः स्मरणज्ञानं प्रमाणाङ्गं नाभिमन्यन्ते । तन्मते ज्ञानमर्थजं, स्मरणं त्वविद्यमानस्यैव पदार्थस्य । तत्तत्संस्कारप्रबोधादुद्भूतमनुभूतार्थगोचरं 'तदित्याकारं वेदनं स्मरणम् । यथा-स देवदत्त इति । तत्तीर्थकरबिम्बं च । ननु त्वन्मतेऽपि अनुमानमविनाभावभावितधूमधूमध्वजयोः पूर्वानुभवस्मरणादेव प्रमाणमनुमानम् । अप्रामाणिकस्मरणसन्दर्शित-स्याऽनुमानाङ्गस्य स्वीकारः कथं युक्तियुक्तः स्यादिति । परं पूर्वानुभूतसाधनादविद्यमानस्यैव साध्यस्य वह्निमत्त्वादेः परिज्ञानम् । तस्यापि कालान्तरे क्षेत्रान्तरेऽपि प्रत्यक्षीकरणाहत्त्वाददोषः । एवं तत्तत्संस्कारप्रबोध:५८ साधनं, पूर्वानुभवसंवेदनं साध्यं सिद्धमनुमानाङ्गमिति ॥
तत्र प्रत्यभिज्ञानं ह्यनुभवस्मरणसाधनाद्यदभिज्ञानं शबलशाबलेयादि परिणामसामान्यवृत्त्या सर्वत्र गोत्वविषयं 'स एवाऽयं जिनदत्त' इत्यादि । यथा
चैत्राभिज्ञानान्मत्रोऽपि साध्यते ॥ वैशेषिकोपमानं तु गोसदृशो गवय इति । तथा गोविसदृशो महिष इत्यपि स्यात् । नालिकेरद्वीपवासिनो हि द्वयमप्यप्रसिद्धमिति दुर्दुरूढकण्टकोद्धारः ॥
१. तदित्यतीतार्थग्राहिणी प्रतीतिः स्मृतिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26