Book Title: Munishwar suri krut Pramansar
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
34
संयमविशुद्धेरुत्पन्नं मनोद्रव्यपर्यायालम्बनं मन:पर्ययज्ञानम् ।
सकलं तु द्रव्यक्षेत्रकालभावसामग्र्या क्षपक श्रेण्युपशमश्रेणिभ्यां च क्षीणमोहगुणस्थानोदये ज्ञानावरणीय दर्शनावरणीया - ऽन्तराय - मोहनीय - अशाता वेदनीयकर्मप्रकृतिषु समूलकाषंकषितासु आयुर्नामगोत्रसातावेदनीयकर्मप्रकृतिषु दग्धरज्जुप्रायासु ५५ सतीषु करकलितामलकीफलवत् समस्तवस्तुपर्यायसाक्षात्कार स्वरूपं केवलज्ञानम् ॥
अत्र पुरुषविशेषप्रकृतयः । अधमाधमः १, अधम: २, विमध्यमः ३, मध्यमः ४, उत्तमः ५, उत्तमोत्तमः ६, इत्येतादृग्विधविष्वङ्घ्रङ्मतिविविधबुधसविशेषपुरुषविशेषस्य निःशेषिताशेषदोषस्य हि केवलित्वम् । आत्मनः केवलावस्थानमिति यावत् । तथा सति कृतज्ञानावरणविवरतिमिर व्यतिकरपरिक्षये सार्वज्ञमेव । ननु पुरुषसेमुखी (शेमुषी) तारतम्ययोगतो ज्ञानतारतम्यं क्वचिद्विश्रान्तमेव ॥
अत्र ताथागतः प्रत्यवतिष्ठते ।
सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ? ॥१॥
अत्र सर्वदर्शित्वे सर्वज्ञत्वे च तात्पर्यं हि सर्वगतपरिज्ञानाभावादन्वय व्यतिरेकाभ्यां हेयापादेयस्वरूपप्ररूपणमसङ्गतं वनीवच्यते ॥ तद्वानर्हन्निर्दोषत्वा [त्], निर्दोषोऽयं प्रमाणाऽविरोधिवाक्यात् ।
ररूपम् ।
अनुसंधान - २५
इति विशेषार्थः ॥
रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् ।
यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ? |
न च कवलाहारेण सार्व्वज्ञं हीयते । ज्ञानं आधेयभूतं, शरीरमाधा
देहो हि पुग्गलमओ आहाराईहिं विरहिओ न भवे । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥
इत्यासोक्तेः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26