Book Title: Munishwar suri krut Pramansar
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
32
अनुसंधान-२५ परः - एवं भवदभिमतं मतं विवेचयाम इति चेत् ।
तत्कि सामान्यलक्षणप्रश्नो वा विशेषणलक्षणप्रश्नो वा ? | न परः। को नामाऽपक्रियमव्यवहार सामान्यमाद्रियते ? ।
'भाना एव हि भासन्ते संनिविष्टा यथा तथा' । इति ।
जाति: सामान्यम् । गोत्वं सर्वत्र । इयं कृष्णा गौरिति दोहनक्रियायां तस्यामेवाऽर्थक्रियाकारित्वम् । न तु सर्वजातौ । मैवम् । किं तत्र गवि स्वरूपसत्त्वं स्वीक्रियते न वा ? । अजातित्वेन खुरककुदः(द) सास्नालक्षणानडुहोऽपि दोहनप्रसक्तेः । स्वरूपसत्त्वाभावात् । स्वरूपपसत्त्वं चेत. तदेव सामान्यम् । तत्रैव सङ्ख्यापरिमाणादिविशेषा इति । निर्विशेष हि सामान्यं प्रागुक्तयुक्त्या सिद्धमेव, किं पिष्टपेषणम् ? ।
तत्र सामान्यतः प्रमाणलक्षणमुक्तम् । सम्प्रति विशेषतः प्रस्तुतमनुसन्धीयते ॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे । सार्वज्ञं ज्ञानं प्रथमं जानाति, ततः पश्यति । अस्मदादिज्ञानं प्रथमं पश्यति, ततो जानाति ।
आहुविधातृ प्रत्यक्षं न निषेद्ध विपश्चितः । . नैकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते ॥१॥
आगमप्रमाणं निषेधकं वापि विधायकम् । प्रत्यक्षं तु विधायि(य)कमेव। 'न निषेद्ध' कोऽर्थः ? । वैशेषिकमतमुद्दिश्य प्रत्यक्षमनुमानाधीनं चक्षुरादिप्रकाशकम् ।
ननु ग्राहकं पूर्वानुभूतं तदाकारतया तदिष्टं साध्यं साधयतीति । प्रमाणेतरसामान्य-स्थितेरन्यधियो गतेः ।। प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥१॥ इति ।
चार्वाका अपि प्रत्यक्ष(क्ष)योग्यार्थमात्रग्राह का गिरं सङ्गिरन्ते स्म।नास्त्यात्मा, प्रत्यक्षप्रमाणातिक्रान्तत्वादिति ॥
'अक्षं अक्षं प्रति प्रत्यक्ष'मित्यव्ययीभावान्नियतनपुंस्त्वं' स्यात् । अक्षशब्दादपि चेत्, न चैवं स्पर्शनादिप्रत्यक्षं नैतच्छब्दवाच्यं स्यादिति । अतः अक्षमिन्द्रियं, ततः प्रतिगतं प्रत्यक्षमिति सिद्धम् । तदिदं५१ प्रत्यक्षस्वरूपस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26