Book Title: Munishwar suri krut Pramansar
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ September-2003 27 आसन्नस्य तु मानता यदि तदा संवेदनस्यैव सा स्यादित्यन्धभुजङ्गरन्ध्रगमिवत् तीर्थः श्रितं त्वन्मतम् ॥१॥ अत्यन्त व्यावृत्तानां पिण्डानां यतः कारणादन्योऽन्यस्वरूपानुगमः प्रतीयते तदनुवृत्तिप्रत्ययहेतुः सामान्यम् । एकाकारा प्रतीतिरेकशब्दवाच्यता २श्वाऽनुवृत्तिः । सर्वत्र गोत्वंगोत्वमिति । भावाः सामान्यविशेषात्मका: स्वभावसामग्रीतः स्वत एव सामान्य विशेषार्पकाः स्युः । घटे घटत्वमिति सामान्यम् । तदाश्रयाः सङ्ख्यावर्णपरिमाणादयो विशेषाः ॥ निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहित्वेन विशेषास्तद्वदेव हि ॥१॥ सामान्यरहिता विशेषा माण्डूकजटाभारानुकाराः । विशेषरहितं सामान्यमपि तदवस्थम् । तदिति सामान्यविशेषाद्यनेकात्मकं वस्तु प्रमेयम्, अनुगतविशिष्टाकारप्रतीतिविषयत्वात् पूर्वापर(रा)कारपरित्यागोपादानस्वरूप परिणामेनाऽर्थक्रियाकारित्वाच्च सिद्धम् ॥ सामान्यपक्षवादिनो मीमांसकाः । सामान्यतोऽर्थक्रियां कुर्युः । विशेषवादिनो बौद्धाः । विशेषानेव प्रमाणयन्ति, सामान्यं पराकुर्वन्ति । जैनास्तु अवियुतसामान्यविशेषस्वरूपवादिनः ।। अथ तत्त्वं अनन्तधर्मात्मकमेव, सत्त्वान्यथानुपपत्तेरिति । एकान्तपक्षोऽपि न क्षोदक्षमः । “उत्पादव्ययध्रौव्ययुक्तं सत् ।" तावदेकान्तनित्यस्य सत्त्वस्याऽऽत्मादेः सुखदुःखोपभोगः कथम् ? । एका सुखावस्था, अपरा दुःखावस्था । नहि गुणो गुणिनमतिरिच्य क्वचन केवलोऽवलोकितः । अवस्थाभेदेऽवश्यमवस्थावतोऽपि भेदः स्यात् । "अयमेवर४ भेदो भेदहेतु यद् विरुद्धधर्माध्यासः कारणभेदश्चेति" 1 स्वभावभेद एव हि कारणमनित्यतायाः ॥ तद्येवमेकान्तनित्यात्मनोऽनित्यतैव प्रत्युत भवितुमर्हति । लाभमिच्छतो मूलक्षितिरेवैवम् । गेहेनर्दितया स्वगृह एव प्रणिगद्यमानं हृद्यम् । न तु प्रामाणिक प्रकाण्डपर्षदि । एकान्ताऽनित्यस्याऽऽत्मनस्तावत् कृतकर्मनाशोऽकृतकर्मोपभोगश्च । येनाऽनित्यात्मना सुकृतं कृतं स काकनाशं नष्टः । क्षणान्तरे सान्वयविनाशेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26