Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 5
________________ २) सिद्धान्तकौमुदी [ कृदन्ते कृत्य 'तत्रोपपदं सप्तमीस्थम्' (२७८१) । 'कृदतिङ्' (व ३७४ )। २८३ वासरूपोऽस्त्रियाम् । (३-१-१४) परिभाषेयम् । अस्मिन्धात्व तृतीयाध्यायपरिसमाप्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्रोपपदं सप्तमीस्थम इति । कृदतिङ् इति । व्याख्यातं प्राक् । वाऽसरूपोऽस्त्रियाम् । असरूप इति छेदः । परिभाषेयमिति । अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः । असरूप इति लिङ्गनिर्देशः । यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते । वेयतः प्राग् बाधक इति शेषः । असरूपो वा बाधको भवतीति यावत् । कस्य बाधको वेत्याकाङ्क्षायाम् उत्सर्गस्येत्याल्लभ्यते । फलितमाह तस्मिन् परतो नित्यत्वात्करिष्यतीत्यादौ प्रथमं स्यप्रत्ययप्रवृत्तौ तिबाद्य प्रसङ्गः, यत्र तु तिबाद्याश्रयो विकरणस्तत्रैव व्यवधानाभावाद्भवतीत्यादौ तिबाद यः स्युरिति चेत् । मैवम् , 'विकरणेभ्यो नियमो बलीयान्' इति स्वीकारात् । अथवा विहितविशेषणाश्रयणेन धातोविहितस्य लस्येति व्याख्यानादिष्टसिद्धिः । नन्वेवं विहितविशेषणाश्रयणे 'विद्ल लाभे' इत्यस्माद्धातोर्विहितस्य लटः शब्विकरणव्यवायेऽपि 'विदो लटो वा' इति.णलादयः स्युरिति चेत् । अत्र हरदत्तः-धातुनाऽत्र विहितं विशेष्यते विदिना त्वानन्तर्यमिति । तथा चायमर्थः संपद्यते-धातोविहितस्य विदोऽनन्तरस्य लटो णलादय इत्यन्युपगमाद् वेत्तेरेव विहितस्य लटो णलादयो भवन्ति न तु विन्दतेर्लट् इति दिक । विधेयानिर्देशात्स्वरितत्वाचाधिकारसूत्रमिदमित्याह अधिकारोऽयमिति । तत्रोपपदमित्यादि । एतेन कृत्संज्ञोपपदसंज्ञयोरिह विधानसौष्ठवाय द्वितीयो धात्वधिकार आवश्यक इति ध्वनितम् । अयं भावः यदि द्वितीयधात्वधिकारो न स्यात्तदा पूर्वधात्वधिकारेऽपि कृदुपपदसंज्ञे स्याताम् । इष्टापत्तौ तु सप्तमीनिर्दिष्टमात्रस्योपपदत्वेन 'च्लि लुङि' इत्यादौ लुबन्ते उपपदे च्लिरित्येवमनिष्टोऽर्थः प्रसज्येत । तिभिन्नधात्वधिकारप्रत्ययस्य कृत्संज्ञायां करिष्यतीत्यादौ स्य प्रत्ययस्य कृत्त्वेन 'कृत्तद्धित-' इति प्रातिपदिकत्वादौत्सर्गिकमेकवचनमिति सर्वसंमतत्वेन सुप्रत्ययप्रसनाच्च, तस्मादधिकारविशेषे अनयोः संज्ञयोविधानार्थमयमधिकार इति । वासरूपोऽस्त्रियाम् । अपवादेन नित्यं बाधे प्राप्ते क्वचिदुत्सर्गस्यापि प्रवृत्त्यर्थमिदं सूत्रम् । अतएव 'अचो यत्' 'ऋहलोर्ण्यत्' इत्याचपवादविषये तव्यदादयोऽपि प्रयुज्यन्ते-भव्यम, भवितव्यम् । कार्यम् , कर्तव्यम् , करणीयम् । वाच्यम्, वक्तव्यमित्यादि । परिभाषेति । अधिकारसूत्रमिति स्वीकृते तु स्यधिकारेण विच्छेदाद्वासरूपसूत्राप्रवृत्त्या आसित्वा भुक्ते, प्रास्यते भोक्तुमित्यादिरूपाणि न सिध्यन्ति । इह हि भोजनार्थत्वादासनस्य पूर्वकालता गम्यते, क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे भवति

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 716