Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 16
________________ प्रकरणम् ६५.] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३ अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृडो यत् । शतेन वयाँ कन्या । वृत्यान्या। २८५० वा करणम् । (३-१-१०२) वहन्त्यनेनेति वह्यं शकटम् । करणं किम्-वाह्यम् , वोढव्यम् । २८५१ अर्यः स्वामिवैश्ययोः । (३-१-१०३) ' गती' अस्मात् । एयतोऽपवादः। अर्यः स्वामी वैश्यो वा । अनयोः किम्-पार्यो ब्राह्मणः, प्राप्तग्य इत्यर्थः । २८५२ उपसर्या काल्या प्रजने । पणधातोर्व्यवहारार्थकाद् यन्निपात्यते इति भावः । यद्यपि 'पण व्यवहारे स्तुती च' इति धातोः अर्थद्वयमस्ति, तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्यते, तदाह व्यवहर्तव्येति । केतव्येत्यर्थः । पाण्यमन्यदिति । एयति उपधावृद्धिरिति भावः । व्यवहर्तव्यादन्यदित्यर्थः, तदाह स्तुत्यर्ह मिति । अप्रतिबन्ध इति । अनियम इत्यर्थः । वृङो यदिति । 'वृङ् संभक्तौ' इति यादिकस्यैवात्र ग्रहणम् , न तु 'वृञ् वरणे' इत्यस्य, अनिरोधरूपार्थस्य संभक्तिवाचित्व एव सामञ्जस्यादिति भावः । शतेन वर्या कन्येति । पुरुषशतेन पारग्रहीतुमर्हा, अनेनैव वरणीयेति नियमो नास्तीत्यर्थः । वृत्या अन्येति । अनुरूपेण वरणीयेत्यर्थः । 'एतिस्तुशास्त्रजुषः क्यप्' इति क्यपि तुक् । अत्र अनियमस्य अप्रतीतं ने यत् । अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि वार्या ऋत्विज इति वृत्तिः । वह्यं करणम् । वहेः करणे यद् निपात्यते । ण्यतोऽपवादः । अर्यः स्वामिवैश्ययोः । अस्माद्यदिति । निपात्यत इति निपातनस्येह रूढ्यर्थत्वाद्यवहर्तव्य एवायं निपात्यते। उक्तं च हरिणा-'धातुसाधनकालानां प्राप्यर्थ नियमस्य च। अनुबन्धविकाराणां रूढ्यर्थे च निपातनम्' इति । अनुबन्धविकाराणा नियमस्य च प्राप्त्यर्थीमाते पूर्वणान्वयः। शतेनेति । शतशब्दोऽनियतपरः। कन्याया वरणे वरयितां नियमो नास्तीत्यर्थः । वात । संभक्तव्येत्यर्थः । वृङ् संभकावित्यस्येदं निपातनम् , तत्रैवानिरोधरूपस्यार्थस्य संभवादिति भावः । अनिरोधेष्वित्यस्यानुक्को ओऽपि स्यादिति ध्वनयति वृत्येति । 'एतिस्तुशास्-' इत्यादिना वृक्षः क्यप् । इह सूत्रेऽवद्यादीनि निर्विभक्तिकानि पृथक्पदानि तत्र वयोशब्दष्टावन्तोऽनुक्रियते । न त्वयं द्वन्द्वेन जसन्तेन निर्देशः । तेन वर्षेति स्त्रियामेव निपात्यते। अस्त्रिया तु वृङः 'ऋहलोपर्यत्', वार्या ऋत्विजः । ऋत्विजामपि यज्ञमात्रे वरणीयत्वादनिरोधोऽस्ति, स्त्रीत्वं तु नास्तीति रायदेव भवति । एतच्च वृत्तिकारमतम। न चात्र 'एतिस्तु- इति क्यप् शङ्कयः । तत्र वृञ एव ग्रहणं न तु धृङ इति सिद्धान्तात् । भट्टिस्तु द्वन्द्वाजसा निर्देश इति मत्वा पुंल्लिोऽपि यतं प्रायुक्त 'सुग्रीवो मम वर्योऽसौ' इति । वाह्यमिति । वहनकर्मेत्यर्थः । उपसर्या । उप

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 716