________________
प्रकरणम् ६५.] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३ अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृडो यत् । शतेन वयाँ कन्या । वृत्यान्या। २८५० वा करणम् । (३-१-१०२) वहन्त्यनेनेति वह्यं शकटम् । करणं किम्-वाह्यम् , वोढव्यम् । २८५१ अर्यः स्वामिवैश्ययोः । (३-१-१०३) ' गती' अस्मात् । एयतोऽपवादः। अर्यः स्वामी वैश्यो वा । अनयोः किम्-पार्यो ब्राह्मणः, प्राप्तग्य इत्यर्थः । २८५२ उपसर्या काल्या प्रजने । पणधातोर्व्यवहारार्थकाद् यन्निपात्यते इति भावः । यद्यपि 'पण व्यवहारे स्तुती च' इति धातोः अर्थद्वयमस्ति, तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्यते, तदाह व्यवहर्तव्येति । केतव्येत्यर्थः । पाण्यमन्यदिति । एयति उपधावृद्धिरिति भावः । व्यवहर्तव्यादन्यदित्यर्थः, तदाह स्तुत्यर्ह मिति । अप्रतिबन्ध इति । अनियम इत्यर्थः । वृङो यदिति । 'वृङ् संभक्तौ' इति यादिकस्यैवात्र ग्रहणम् , न तु 'वृञ् वरणे' इत्यस्य, अनिरोधरूपार्थस्य संभक्तिवाचित्व एव सामञ्जस्यादिति भावः । शतेन वर्या कन्येति । पुरुषशतेन पारग्रहीतुमर्हा, अनेनैव वरणीयेति नियमो नास्तीत्यर्थः । वृत्या अन्येति । अनुरूपेण वरणीयेत्यर्थः । 'एतिस्तुशास्त्रजुषः क्यप्' इति क्यपि तुक् । अत्र अनियमस्य अप्रतीतं ने यत् । अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि वार्या ऋत्विज इति वृत्तिः । वह्यं करणम् । वहेः करणे यद् निपात्यते । ण्यतोऽपवादः । अर्यः स्वामिवैश्ययोः । अस्माद्यदिति । निपात्यत इति निपातनस्येह रूढ्यर्थत्वाद्यवहर्तव्य एवायं निपात्यते। उक्तं च हरिणा-'धातुसाधनकालानां प्राप्यर्थ नियमस्य च। अनुबन्धविकाराणां रूढ्यर्थे च निपातनम्' इति । अनुबन्धविकाराणा नियमस्य च प्राप्त्यर्थीमाते पूर्वणान्वयः। शतेनेति । शतशब्दोऽनियतपरः। कन्याया वरणे वरयितां नियमो नास्तीत्यर्थः । वात । संभक्तव्येत्यर्थः । वृङ् संभकावित्यस्येदं निपातनम् , तत्रैवानिरोधरूपस्यार्थस्य संभवादिति भावः । अनिरोधेष्वित्यस्यानुक्को ओऽपि स्यादिति ध्वनयति वृत्येति । 'एतिस्तुशास्-' इत्यादिना वृक्षः क्यप् । इह सूत्रेऽवद्यादीनि निर्विभक्तिकानि पृथक्पदानि तत्र वयोशब्दष्टावन्तोऽनुक्रियते । न त्वयं द्वन्द्वेन जसन्तेन निर्देशः । तेन वर्षेति स्त्रियामेव निपात्यते। अस्त्रिया तु वृङः 'ऋहलोपर्यत्', वार्या ऋत्विजः । ऋत्विजामपि यज्ञमात्रे वरणीयत्वादनिरोधोऽस्ति, स्त्रीत्वं तु नास्तीति रायदेव भवति । एतच्च वृत्तिकारमतम। न चात्र 'एतिस्तु- इति क्यप् शङ्कयः । तत्र वृञ एव ग्रहणं न तु धृङ इति सिद्धान्तात् । भट्टिस्तु द्वन्द्वाजसा निर्देश इति मत्वा पुंल्लिोऽपि यतं प्रायुक्त 'सुग्रीवो मम वर्योऽसौ' इति । वाह्यमिति । वहनकर्मेत्यर्थः । उपसर्या । उप