________________
१२ ]
सिद्धान्तकौमुदी। [कृदन्ते कृत्यम्यम्' (वा १९३०) इति वार्तिकप्रयोगात् । एतेन 'अनियम्यस्य नायुक्तिः 'स्वया नियम्या ननु दिव्यचक्षुषा' इत्यादि ग्याख्यातम् । नियमे साधुरिति वा। २८४६ अवधपण्यवर्या गर्हापणितव्यानिरोधेषु । (३-१-१०१) वदेनभ्युपपदे 'वदः सुपि-' (सू २८५४ ) इति यत्क्यपोः प्राप्तयोर्यदेव, सोऽपि गर्हायामेवेत्युभयार्थ निपातनम् । अवद्यं पापम् । गर्थे किम्-अनुयं गुरुनाम । तद्धि न गचं वचनानहं च ।
प्रात्मनाम गुरोनोम नामातिकृपणस्य च ।
श्रेयस्कामो न गृह्णीयाज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । पण्या गौः, व्यवहर्तव्येत्यर्थ । पाण्यमन्यत् । स्तुत्यहमित्यर्थः । यत् । अनुपसर्गादिति निषेधादित्यत आह निपूर्वात्स्यादेवेति । यदिति शेषः । कुत इत्यत आह तेन तत्रेति । प्रकारान्तरेण समाधत्ते नियमे साधुरिति वेति । 'यमः समुपनिविषु च' इति निपूर्वाद्यमे वे अप्प्रत्यये नियमशब्दः । नियमे साधुरित्यर्थे 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इन्यर्थः । अवधपण्य । श्रवद्य, पण्य, वर्य एषां द्वन्द्वात्प्रथमाबहुवचनम् । गर्य, पणितव्य, अनिरोध एषां द्वन्द्वात्सप्तमीबहुवचनम् । अवद्यादयस्त्रयः क्रमाद् गादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः । ननु 'वदः सुपि-' इत्येव सिद्ध आवद्यग्रहणं व्यर्थमित्यत प्राह नभ्युपपदे इति । यत्क्यपोः स्वरे विशेषः, संप्रसारणतदभावौ चेति भावः । अवधं पापमिति । गर्हितत्वादवाच्यमित्यर्थः । अनुद्यं गुरुनामेति । अत्र ननि उपपदे 'वदः सुपि' इति क्यपि 'वचिस्वपियजादीनां किति' इति संप्रसारण रूपम् । वचनानहमित्यर्थः । अत्र गर्हाया अप्रतीतेः यदेवेति न नियम इति भावः । ननु गुरुनान्नः अगद्यत्वात् कथं वचनानहेत्वमित्यत आह तद्धि न गर्यो वचनानहें चेति । कुत इत्यत आह आत्मनामेति । पण्या गौरिति । नियमे साधुरिति । 'यमः समुपनिविषु च' इति वैकल्पिकेऽप्रत्यये कृते 'तत्र साधुः' इति तद्धितो यदित्यर्थः । यद्यप्यस्मिन्पक्षे 'कृत्यानां कतार वा' इत्यस्याप्रवृत्तेः कर्तरि तृतीया दुर्लभा तथापि त्वयेति तेनेति च करणत्वविवक्षया तृतीयेति स्थितस्य गतिर्बोध्या। केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे । यद्वा 'यमोऽपरिवेषणे मित्' इति मतमाश्रित्य 'पर्यवसितं नियमयन्' इत्यादाविव मित्त्वं स्वीकृत्य एयन्ताद्यद् बोध्यः। अथ वा संज्ञापूर्वकविधेरनित्यत्वाद् ण्यत्येव वृद्धिर्न प्रवृत्तेति दिक् । एवं च वार्तिकप्रयोगोऽप्यन्यथासिद्ध इति तद्वलेन निपूर्वाद्यदिति न कल्पनीयमिति भावः । अनुद्यमिति । अत्र वदेः क्यवेव भवति, यजादित्वात्संप्रसारणम् , 'नलोपो नमः', 'तस्मान्नुडचि' । व्यवहर्तव्येति । यद्यपि पणितव्यशब्दोऽर्थद्वयसाधारणस्तथापि