________________
प्रकरणम् ६५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । ११ श्रालम्भ्यो गौः । २८४६ उपात्प्रशंसायाम् । ( ७-१-६६ ) उपलम्भ्यः साधुः । स्तुतौ किम् - उपलब्धुं शक्य उपलभ्यः । २८४७ शक्सिहोश्च । ( ३-१-६६ ) शक्यम् । सह्यम् । २८४८ गमदचरयमश्चानुपसर्गे । ( ३-१-१०० ) गद्यम् । मद्यम् । चर्यम् । 'चरेराङि चागुरौ ' ( वा ११२५ ) । श्राचर्यो देशः, गन्तव्य इत्यर्थः । अगुरौ किम् - आचार्यो गुरुः । यमेर्नियमार्थम्, सोपसर्गान्मा भूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव, 'तेन तत्र न भवेद्विनिय
1
विवक्षिते तत्प्रवृत्तः प्रागेव नुमि कृते श्रदुपधत्वाभावाद्यत्प्रत्ययस्याप्रवृत्ते सूर्यदेवेत्यर्थः । यति परे नुमित्यर्थे तु ऋदुपधत्वाद् यदेव स्याद् न तु रायदिति भावः । श्रालम्भ्यो गौरिति । यद्यपि यत्ण्यतोनं रूपभेदः, तथापि यति कृते तित्स्वरितम् । इति खरितत्वम् । यति तु 'यतोऽनाव:' इत्यायुदात्तत्वमिति स्वरभेदः फलम् । उपात्प्रशंसायाम् । उपात्परस्य लभेर्नुम् स्याद् यादौ प्रत्यये विवक्षिते प्रशंसायां गम्यमानायामित्यर्थः उपलम्भ्यः साधुरिति । समीपे प्राप्य इत्यर्थः । साधुशब्दात् प्रशंसा गम्यते । इहापि नुमि कृते अदुपधत्वाभावाद् रयदेव स्वरे विशेषः पूर्ववत् । शकिसहोश्च । पञ्चम्यर्थे षष्ठी । आभ्यां यदित्यर्थः । रयतोऽपवादः । गदमद । गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः । अनुपसर्ग इति सप्तमी पञ्चम्यर्थे । एभ्यो ऽनुपसर्गेभ्यो यदित्यर्थः । ण्यतोऽपवादः । उपसर्गाद् यदेव । प्रगाद्यमित्यादि । चरेराङि चागुराविति । वार्तिकमिदम् । श्राङि उपसर्गे सत्यपि वरेर्यत्स्यादगुरौ इत्यर्थः । आचार्यो गुरुरिति । शुश्रूषणीय इत्यर्थः । ननु 'पोरदुपधात्' इत्येव सिद्धे यमेरिह प्रहणंत्र्यर्थमित्यत श्राह यमेर्नियमार्थमिति । अनुपसर्गादेव यमेदिति नियमार्थमित्यर्थः । तत्फलमाह सोपसर्गान्मा भूदिति । ' नायुक्तिः' इत्यत्र 'त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादौ च निपूर्वाद्यमेः कथं तत्वेनोत्तरपदायुदात्तत्वं प्रसज्येत तच्चानिष्टमिति भावः । उपात्प्रशंसायाम् । यादौ प्रत्यये विवक्षित उपपूर्वाल्लभेर्नुम् स्यात्प्रशंसायाम् । सा चेह गम्यमानतया विशेष -
म् । धात्वर्थस्तु प्राप्तिरेव तेन यस्य प्राप्तिर्यस्माद्वा प्राप्तिः प्रशंसाहेतुर्भवति तदिहोदाहरणम् । विपरीतं तु प्रत्युदाहरणम् । इहापि यादौ प्रत्यये विवक्षित इत्यर्थान्नुमि कृते रायति सत्यन्तस्वरितत्वं भवति । यति तु सत्युत्तरपदायुदात्तत्वं स्यात् । प्राचा तु स्वरे विशेषमनालोच्य 'पोरदुपधात्' इति यतमेव स्वीकृत्य यति परे नुमिति व्याख्यातं तदाकरविरोधादुपेच्यमित्याहुः । गदमद् । व्यत्ययेन पञ्चम्यर्थे सप्तमी । एभ्योऽनुपसर्गेभ्यो यत्स्याद् रयतोऽपवादः । अनुपसर्गे किम्, 'न नैषधे कार्यभिदं निगाद्यम' इति श्रीहर्षः । यमेरिति । 'पोरदुपधात्' इत्यनेनैव सिद्धेरिति भावः ।