________________
१०]
सिद्धान्तकौमुदी। [ कृदन्ते कृत्य२८४४ पोरदुपधात् । (३-१-६८) पवर्गान्ताददुपधाद्यरस्यात् । एयतोsपवादः । शप्यम् । लभ्यम् । 'नानुबन्धकृतमसारूप्यम् । अतो न एयत् । तन्यदादयस्तु स्युरेव । २८४५ आङो यि। (७-१-६५) श्राः परस्य बभेर्नुम्स्याद्यादी प्रत्यये विवक्षिते । नुमि कृते अदुपधत्वाभावाद् ण्यदेव । दभावार्थमिह जनेद्विधिरस्त्वित्याशङ्कय निराकरोति न च वृद्धिप्रसङ्ग इति । कुत इत्यत आह जनिवध्योरिति । हनो वेति। हनधातोर्यद्वा स्यात् । प्रकृतेर्वधादेशश्चेत्यर्थः । पक्षे इति । यदभावपक्षे इत्यर्थः । घात्य इति । ण्यति 'हनस्तोऽचिराणलोः' इति नस्य तः। कुत्वम् । उपधावृद्धिः । वधादेशस्तु यत्संनियोगशिष्टत्वान्नति भावः। पोरदुपधात् । ननु शप्यं लभ्यमित्यत्र 'ऋहलोर्यत्' इति कदाचिद् ण्यदपि स्यात । यत्रायतोरसारूपप्येण 'वाऽसरूप-' इत्यस्य प्रवृत्ते. रित्यत आह नानुबन्धकृतमसारूप्यमिति । वाऽसरूपसूत्रे भाष्ये स्थितमिदम् । अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विवक्षितमित्यर्थः । प्रकृते च यत्ण्यतोरनुबन्धरहितयोः सारूप्याद् वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ एयदपवादो यदेवेति भावः।
आङो यि । 'इदितो नुम् धातोः' इत्यतो नुमिति 'लभेश्च' इत्यतो लभेरिति चानुवर्तते, तदाह आङः परस्येति । विवक्षिते इति । यीति विषयसप्तमीति भाष्ये स्पष्टम् । विवक्षिते इत्यस्य प्रयोजनमाह नुमि कृते इति । यत्प्रत्यये
इत्यपि न वाच्यम् । अन्तोदात्तत्वप्रसङ्गादिति दिक् । घात्य इति । 'हनस्तोs. चिराणलोः' इति तत्वम् , 'हो हन्तेः-' इति कुत्वम् । पोरदुपधात् । पोः किम् , पाक्यम् । अदुपधादिकम् , कोप्यम् । तपरकरणं किम्, प्राप्लु व्याप्ती, प्राप्यम् । नानुबन्धेति । अनुबन्धानामनवयवत्वात् तत्कृतमसारूप्यं नाश्रीयते । एकान्तत्वपक्षेऽपि 'ददातिदधात्योर्विभाषा' इति विभाषाग्रहणाल्लिङ्गानाश्रीयते । अन्यथा अनु. वन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन विभाषाग्रहणेन । ततश्च पक्षद्वयेऽपि शप्यमित्यादौ ण्यन्न भवतीति भावः । एतच्च ददातीत्यादिसूत्रे विभाषाप्रहणमनुबन्धानामनेकान्तत्वपक्षे शविषये णस्याप्राप्तौ विभाषा, एकान्तत्वपक्षे तु प्राप्तविभाषेति पक्षद्वयसाधारणं विभाषाग्रहणं लिङ्गं मनोरमायामकान्तत्वपक्ष एवोपन्यस्तमिति तदनुसारेणेहाप्युक्तम् । अनेकान्तत्वपक्षे त्वसाधारणं लिङ्गम् 'उदीचां माङ:-' इति सूत्रे माङो प्रहणम् । मेड इत्यत्र हि सत्यपि उकारानुबन्धे तस्यानवयवत्वाद् एजन्तत्वमविहतमिति 'श्रादेच उपदेशे-' इत्यात्वस्वीकारादिति दिक् । एयदेवेति । तेन 'तित्स्वरितम्' इति स्वरिते सति पालम्भ्य इत्यत्र समासान्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतित्वरेण स्वरितान्तत्वमिष्टं सिध्यति, यति तु 'यतोऽनावः' इत्यायुदा