________________
प्रकरणम् ६५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [. ईद्यति । (६-४-६५) यति परे प्रात ईत्स्यात् । गुणः, देयम् । ग्लेयम् । 'तकिशसिचतियतिजनिभ्यो यद्वाच्यः' (वा १९२२) तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यविधिः स्वरार्थः, एयतापि रूपसिद्धेः। न च वद्धिप्रसङ्गः, 'अनिवध्योश्च' (सू २५१२) इति निषेधात् । 'हनो वा यद्वधश्च वक्तव्यः' (पा १९२३ )। वध्यः । पक्षे वयमाणो ण्यत्, घात्यः । इति ऋहलन्ताद् विशेष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्ययस्याप्रवृत्तिरित्यर्थः । वासरूपविधिस्तु सरूपत्वान्न भवति । योगविभागोऽप्येवमिति । कर्तुमशक्य इत्यर्थः । कुत इत्यत श्राह तव्यदादिष्वेवेति । तव्यत्तव्यानीयर्यत इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः । ईद्यति । आत इति । 'अातो लोप इटि च' इत्यतस्तदनुवृत्तेरिति भावः । गुण इति । दाधातोः 'प्रचो यत्' इति यति
आत ईत्त्वे 'सार्वधातुकार्धधातुकयोः' इति गुण इति भावः । ग्लेयमिति । 'ग्लै हर्षक्षये' इति धातोर्यति 'श्रादेचः' इत्यात्त्वे ईत्त्वे गुण इति भावः । तकिशसीति । तकि, शसि, चति, यति, जनि एषां पञ्चानो द्वन्द्वः। इका निर्देशः । 'ऋहलोर पत्' इत्यस्यापवादः । 'तक हसने, शसु हिंसायां, चते याचने, यती प्रयत्ने, जनी प्रादुर्भावे' इति धातवः। अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्ययः। सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः । ननु 'अर्हे कृत्यतृचश्च' इत्यहऽपि जनेयंताऽपि जन्यमिति रूपसिद्धः जनिग्रहणं व्यर्थमित्यत आह स्वरार्थ इति । 'यतोऽनावः' इत्यायुदात्तार्थ इत्यर्थः । ननु रायति उपधावृद्धिः स्यात्, अतस्तदावुपधावृद्धिप्रसङ्गादिति भावः। सुपठत्वादिति । द्वये धातवोऽर्जन्ता हलन्ताश्च । तत्र हलन्तारण्यतं वक्ष्यतीति परिशेषादजन्तादेव यद्भविष्यतीति भावः । तकिशसीति । तक हसने । शसु हिंसायाम् । चते याचने । यत्तु केचिच्छंसीति सानुस्वारं पठन्ति तदुपक्ष्यम् । ईडवन्दवृशंसदुहां ण्यतः' इति सूत्राविरोधेन शंसर्यत एव स्वीकर्तव्यत्वात् । हनो वा यदिति । हन्तेर्वा यत्स्यात् , यत्संनियोगेन वधादेशस्तु नित्य एव । यद्यपि वधमहतीति वध्य इति 'शीर्षच्छेदाद्यच्च' इत्यतो यदित्यनुवर्तमाने 'दण्डादिभ्यः-' इति तद्धितेन यतापि सिध्यति तथाप्यसिवध्यो मुसलवध्य इति समासो न सिध्येत् । कृति पुनः 'कर्तृकरणे कृता-' इति सिध्यति । न चासिवधमईतीति विप्रहे कृतसमा पादेव तद्धितोऽस्त्विति वाच्यम् , दण्डादिषु केवलस्य वधशब्दस्य पाठात्प्रत्ययविधौ तदन्तविधेश्व प्रतिषेधात्स्वरे भेदाच्च । असिवधशब्दाद्यति हि सति 'तित्स्वरितम्' इति स्वरितः प्रसज्येत । कृदन्तेन समासे तु कृदुत्तरपदप्रकृति. स्वरेण वध्यशब्द आयुदात्तः। अतएव वध्यशब्देन तद्धितान्तेन सह सुप्सुपेति समास