________________
=]
सिद्धान्तकौमुदी ।
[ कृदन्ते कृत्य
( ८-४-३३) एषां नस्य णो वा स्यारकृति परे । प्रिंसितव्यम्, प्रनिंसितव्यम् । २८४० न भाभूपूकमिगमिष्यायीवेपाम् । ( ८-४-३४ ) एभ्यः कृन्नस्य यो न । प्रभानीयम् । प्रभवनीयम् । 'पूञ एवेह ग्रहणमिष्यते ' ( वा ५०११ ) । पूङस्तु प्रपवणीयः सोमः । ' ण्यन्त भादीनामुपसंख्यानम्' ( वा ५०१२ ) । प्रभापनीयम् । 'ख्शाञः शस्य यो वा' ( वा १५८४ ) इत्युकं स्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानाच्च णत्वम् । प्रख्यानीयम् । २८४१ कृत्यल्युटो बहुलम् । ( ३-३-११३ ) स्नान्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः । २८४२ श्रचो यत् । ( ३-१-१७) अजन्ताद्धातोर्यत्स्यात् । चेयम् । जेयम् । अज्ग्रहणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तन्यदादिष्वेव यतोऽपि सुपठत्वात् । २८४३
एषां नस्येति । न भाभू । प्रभानीयमिति । इह 'कृत्यचः' इति प्राप्तं णत्वं नेति भावः । णत्वप्रकरणोपरीति । इदं 'चक्षिङः ख्याञ्' इति सूत्रे भाष्ये स्पष्टम् । प्रख्यानीयमिति । इह यत्वस्यासिद्धतया शकारेण व्यवधानात् ‘कृत्यचः' इति णत्वं नेति भावः । कृत्यल्युटो । याभ्यः प्रकृतिभ्यो येष्वर्थेषु विहिताः ततोऽन्यत्रापि स्युरित्यर्थः । स्नानीयमिति । करणे अनीयर् । दानीय इति । संप्रदाने अनीयर् । भाष्ये तु 'कृतो बहुलमिति वक्तव्यम्' इत्युक्त्वा पादाभ्यां ह्रियते पादहारकः । कर्मणि वुल् । श्वोऽनीनाधास्यमानेन । श्रद्य भविष्यति लृडित्युदाहृतम् । श्रचो यत् । शक्यमकर्तुमिति । 'ऋहलोर्यत्' पूरण इत्यस्माद्भावे ल्युट् । वा निंस । 'कृत्यचः' इत्यतोऽनुवर्तनादाह कृति पर इति । एयन्तभादीनामिति । रायन्तस्य प्रकृत्यन्तरत्वादप्राप्ते वचनम् । 'हेरचङि ' इति सूत्रे चङीति पर्युदासेन प्रकृतिग्रहणे रायधिकस्यापि ग्रहणमिति ज्ञापनादेतत्सिद्धमिति केचिदाहुस्तद्रभसात् ज्ञापनं तु कुत्वमात्रविषयकमिति भाष्यादौ सिद्धान्तितत्वात् । अचो यत् । धातोरिति वर्तते । अज्ग्रहणं च धातोर्विशेषणं विशेषणेन तदन्तविधिस्तदाह अजन्तादिति । शक्यमकर्तुमिति । अत्र केचिदज्ग्रहणमजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थमपेक्षितम् । तेन दित्स्यं धित्स्यमित्यत्र यति कृते ‘यतोऽनावः' इत्याद्युदात्तत्वं सिध्यति, ण्यति कृते तु 'तित्स्वरितम्' इति प्रसज्येत । न च दित्स्यं धित्स्यमित्यत्र 'ॠहलो:' इति ण्यतः प्रसक्तिरेव नास्तीति वाच्यम्, श्रार्धधातुकविवक्षायामेव श्रतो लोपे कृते हलन्तत्वेन तत्संभवादित्याहुः । तदापाततः, श्रार्धधातुके विवक्षिते यद्यतो लोपः स्यात्तदा हीदं संभवेत्, लोपस्तु श्रार्धधातुके पर एवोचितः । अन्यथा परनिमित्तत्वाभावेन स्थानिवत्वाभावे गणपतीत्या
"