________________
प्रकरणम् ६५ ] बालमनोरमा-तत्त्वबोधिनीसंहिता
स्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् , प्रकोपनीयम् । हलः किम्प्रोहणीयम् । इजुपधात् किम्-प्रवपणीयम् । २८३८ इजादेः सनमः (८-४-३२) सनुमश्चद्भवति तोहे इजादेईलन्ताद्विहितो यः कृत्तस्थस्यैव । प्रेक्षणीयम् । इजादेः किम्-'मगि सर्पणे' प्रमङ्गनीयम् । नुम्ग्रहणमनु तागे. पलक्षणम् । 'अटकुप्ताङ्-' (सू २९७) इति सूत्रेऽप्येवम् । तेनेह न-प्रेन्व. नम् । इह तु स्यादेव । प्रोम्भणम् । २८३६ वा निसनिक्षनिन्दाम् । इजादेः । ‘णविभाषा' इति निवृत्तम् । 'कृत्यचः' इत्यनुवर्तते, 'हलचेजुपधात्' इत्यतो हल इति च । प्रकृतिविशेषणत्वात् तदन्तविधिः । तथा च सुनमो हलन्ताद् इजुपधात् परस्य कृमस्य णः स्यादिति लभ्यते । एवं च प्रेक्षणीयमित्यादौ 'कृत्यचः' इत्येत्र सिद्धेरिदं नियमार्थमित्याह सनुमश्चेदिति । कृत्स्थस्येवेत्यनन्तरं णत्वमिति शेषः। प्रेखणीयमिति । इखधातुरिदित्त्वात्सनुभ् । ननु 'इवि प्रीणने' इति धातोर्युटि तस्याना देशे प्रेन्वनमित्यत्रापि णत्वं स्यात्, सनुमोऽस्य इजादित्वाद्धलन्तत्वाचे यत आह मुंग्रहणमित्यादि । अनुस्वारश्च सर्व एव गृह्यते, न तु नुंस्थानिक एव, अवशेषात् । तदाह इह विति । प्रोम्भणमिति । इह उम्भधातुः स्वाभाविकानुस्वारवानेव, न तु नुंस्थानिकानुस्वारवानिति भावः । वा जिंस । 'कृत्यचः' कृतीत्यनुवृत्तम् । श्रच इति च निवृत्तम् , तदाह व्यभिचाराद्धल इत्यन्न तदादित्वं लक्ष्यत इत्याह हलादेरिति । प्रकोपणीयमिति । कुप क्रोधे । प्रोहणीयमिति । ऊह वितर्के । अत्र 'कृत्यचः' इति नित्यमेव णत्वम् । एवं प्रवपणी यमित्यत्रापि । डुवप् बीजसंताने । इजादेः सनुमः । 'कृत्यचः' इत्येव सिद्ध नियमार्थमिदमित्याह सनुमश्चेदित्यादि । इह हल इत्यनुवृत्तं तदन्तपरं न तु तदादिपरम् । इजादेहलादित्वासंभवात्तदाह हलन्तादिति । विहित इति। यदि तु विहितविशेषणं न व्याख्यायेत तर्हि नियमार्थता न लभ्येत, णिजन्ताद्विहितस्यापि कृत्स्थनकारस्य णिलोपे कृते हलन्तात्परत्वेन ‘णर्विभाग' इति विकल्पं बाधितुं विधेः संभवात् । इष्टापत्तौ तु अणिजन्तप्रकृतिकानी
प्रत्ययान्तं प्रेक्षणीयमित्याद्युदाहरणं न स्यात् , किं तु णिजन्तप्रकृतिकमेवोदाहरणं स्यात् । किं च अस्य सूत्रस्य नियमार्थत्वाभावात्प्रमङ्गनीयमित्यत्र 'कृत्यचः' इत्यनेन णत्वं स्यात , अतो विहितविशेषणमवश्यं स्वीकार्यमिति दिन् । नन्वेवमपि नियमार्थता न गज्यते, प्रेन्वनमित्यत्र विध्यर्थत्वसंभवात् , नुम्नकारेण व्यवधानात् 'कृत्यचः' इत्यस्या
तरित्यत आह नुम्ग्रहणमिति । 'अटकुप्वाङ्-' इति सूत्र इवात्रापि नुमानुस्वारो लक्ष्यत एति विध्यर्थत्वमिह न शङ्कनीयमिति भावः। प्रोम्भणमिति । उम्भ