SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १४ ] सिद्धान्तकौमुदी । [ कृदन्ते कृत्य 1 A ( ३-१-१०४ ) गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्या इति किम् - उपसार्या काशी । प्राप्तव्येत्यर्थः । २८५३ अजर्य संगतम् । ( ३-१-१०५ ) नव ज्जीर्यतेः कर्तरि यत्, संगतं चेद्विशेष्यम् । न जीर्यतीत्यजर्यम् । 'तेन संगतमार्येण रामाजर्यं कुरु द्रुतम्' इति भट्टिः । ' मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध, इत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् - श्रजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि यदेव । प्रजार्थं संगतेन । २८५४ वदः सुपि क्यप् च । ( ३-१-१०६ ) उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप् स्याश्वाद्यद शेषः । रयतोऽपवाद इति । 'ऋहलो:--' इति प्राप्तस्य रयतोऽपवाद इत्यर्थः । यति ऋकारस्य गुणे रपरत्वम्, तदाह श्रर्यः स्वामीति । आर्यो ब्राह्मण इति । ण्यति वृद्धौ रपरत्वमिति भावः । उपसर्या । प्रजननं प्रजनो गर्भग्रहणम्, भावे घञ्, 'जनिवध्योश्च ' इति वृद्धिनिषेधः । कालः प्राप्तोऽस्याः काल्या, 'तदस्य प्राप्तम् -' इत्यनुवर्तमाने 'कालाद्यत् ' इति यत् । चेदित्यध्याहार्यम्, तदाह गर्भग्रहणे प्राप्तकाला चेदिति । गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिः विवक्षिता चेद् उपसर्या इति निपात्यते । उपपूर्वात् सृधातोः यदिति फलितम् । ण्यतोऽपवादः । श्रजर्यम् । कर्तरि यदिति । 'कर्तरीति वक्तव्यम्' इति वार्तिकम् । निपातनात् कर्तरीति लभ्यत इति तदाशयः । संगतमिति । संगतं संगमः । न जीर्यतीत्यजर्यमिति । मित्रत्वमिति शेषः । जरितृ न भवतीत्यर्थः । अत्र भट्टिप्रयोगमाह तेनेति । हे राम तेन श्रार्येण जर्यम् अनश्वरं संगतं संगमं दुतं कुरु इत्यन्वयः । ननु 'मृगैरजर्यं जरसा' इत्यत्र संगतशब्दाभावात् कथं यदित्यत आह मृगैरित्यादि । कालिदासकाव्यमिदम् । जरितेति । तृजन्तम् । अत्र संगतशब्दाभावान्न यदिति भावः । भावे त्विति । भावस्य संगतकर्तृकत्वेपि संगतस्य प्रत्ययवाच्यत्वाभावाद् न यदित्यर्थः । वदः सुपि । पूर्वात्सरः सर्तेर्वा यन्निपात्यते । कालः प्राप्तोऽस्याः काल्या । ' तदस्य प्राप्तम्' इति वर्तमाने 'कालाद्यत् इति यत् । प्रजननं प्रजनो गर्भग्रहणम् । भावे घञ् 'जनिव - ध्योश्च' इति वृद्धिनिषेधः । उपसार्येति । कर्मणि यत् । कर्तरि यदिति । ‘तयोरेव -' इति भावे प्राप्ते कर्तरि यन्निपात्यत इति भावः । संगतं चेदिति । नपुंसके भावे क्लः । विशेष्यमिति । इहाजर्यमिति समुदायस्य संगतं वाच्यमित्यर्थो न पर्यायाणां युगपत्प्रयोगासंभवेनाजर्यं सतां संगतमिति प्रयोगानापत्तः । तेन संगतमिति भट्टिप्रयोगानुपपत्तेश्च । वदः । सकर्मकत्वाद्भावे कृत्यप्रत्ययो दुर्लभः 'लः कर्मणि-' इति सूत्र इव ‘तयोरेव -' इत्यत्रापि सकर्मकेभ्यः कर्मणि अकर्मकेभ्य एव ग्राह्यः.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy