SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६५] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५ नुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् , ब्रह्मवद्यम् । ब्रह्म वेदः, तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्येके । उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् । २८५५ भुवो भावे । (३-१-१०७ ) क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुपीत्येव, भव्यम् । अनुपसर्गे इत्येव, प्रभव्यम् । २८५६ हनस्त च । (३-१-१०८) अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चन्तादेशः । ब्रह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् । २८५७ एतिस्तुशास्वृदृजुषः क्यप। (३-१-१०६) एभ्यः क्यप्स्यात् । २८५८ हस्वस्य पिति कृति तुक् । (६-१-७१ ) इत्यः । स्तुत्यः । 'शास इदङ्हलोः' (सू २४८६)। शिष्यः । वृ इति वृक्षो ग्रहणं न वृङः। वृत्यः । वृङस्तु वार्या ऋत्विजः । उत्तरेति । 'भुवो भावे' इत्युत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः । भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयर्थ्यादिति भावः । अनुपसर्गे इति । 'वदः सुप्यनुपसर्गप्रहणम्' इति भाष्यादिति भावः । ब्रह्मोद्यमिति । वदेः क्यपि 'वचिस्वपि-' इति संप्रसारणम् । वस्तुतस्तु नेह भावग्रहणमपकृष्यते । तत्र भावग्रहणमुत्तरार्थमिति भाष्यादिति मतमनुसृत्याह कर्मणि प्रत्ययावित्येके इति। क्यब्यतावित्यर्थः । भुवो भावे । ब्रह्मभूयमिति । कित्त्वान्न गुणः । क्लीबत्वं लोकात् । भव्यमिति। भाव इत्यर्थः । अत्र सुवुपपदत्वाभावाद् यदेव, गुणः, 'वान्तो यि-' इत्यवादेशः। प्रभव्य. मिति। प्रभाव इत्यर्थः । हनस्त च । अन्तादेश इति । प्रकृतेरिति शेषः । भावे किम् ? घात्यो वृषलः। अनुपसर्गे किम् ? प्रघातः। निरुपपदं हत्येति तु असाध्वेव । एतिस्तु । एति, स्तु, शास् , वृ, दृ, जुष् एषां षण्णां समाहारद्वन्द्वात्पञ्चमी । सुप्यनुपसर्गे भाव इति निवृत्तम् , तदाह एभ्यः क्यप्स्यादिति । ह्रस्वस्य । स्पष्टमिति न व्याख्यातम् । इत्य इति । इणः क्यपि तुक् । उपेयमित्यत्र तु ईङो देवादिकाद्यत् । वृञो भावे इति सिद्धान्तात् । अत आह भाव इत्याकृष्यत इति । 'भुवो भावे' इत्यत्रानुपसर्ग इत्यनुवर्तनाद् निरुपसर्गस्य भवतेरकर्मकत्वात् 'तयोरेव कृत्य-' इति भावे कृत्यप्रत्ययसिद्धौ भावग्रहणस्य वैयर्थ्यशङ्कायां भावग्रहणमुत्तरार्थमिति भाष्ये स्थितं तद्भाष्यस्वारस्यग्राहिणां मतमाह कर्मणीति । अनुपसर्ग इति । सुपि किण, 'हनस्तो चिरणलोः' । घातः । अनुपसर्गे किम् , प्रघातः, भावे घञ्। एतिस्तु । एभ्य इति सुप्यनुपसर्गे भावे इति च निवृत्तमिति भावः । एतीतीण एव प्रहणं नेङिकोः । तयोरधिपूर्वयोरेव ग्रहणादेतीति निर्देशानुपपत्तेः । तथा च रक्षार्थ वेदानामध्येयं व्याकरणमिति भाध्ये यदेव प्रयुक्तः । केचित्तु 'इण्वदिक इति वक्तव्यम्' इति वचनादिकोऽपि भवतीत्यधीत्यामातेत्युदाहरन्ति । इत्य इति । कथं तर्हि उपेयमिति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy