________________
सिद्धान्तकौमुदी। [कृदन्ते कृत्यमाहत्यः । जुष्यः। पुनः क्यबुनिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः । 'शंसिदुहिगुहिम्यो वा' (वा १८३५) इति काशिका । शस्यम्, शंस्यम् । दुह्यम् , दोयम् । गुह्यम् , गोह्यम् । 'प्रशस्वस्थ श्रः' (सू २००६) इंडवन्दवृशंसदुहां ण्यतः' (सू ३७०२) इति सूत्रद्वयबलाच्छुसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् | 'प्रापर्वादलेः संज्ञायामुपसंख्यानम्' (वो १६२५) । अम्जू व्यक्तिम्रक्षणादिषु, बाहुलकास्करणे क्यप्, 'अनिदिताम्- (सू ४१५) इति नलोपः, प्राज्यम् । २८५६ ऋदुपधाच्चाक्लपितेः (३-१-११०) ग्रहणमिति । वार्तिकमिदम् । न वृद्ध इति । 'वृङ् संभक्तौ' इति ङितः कैयादिकस्य न . ग्रहणनित्यर्थः । वार्या ऋत्विज इति । अवश्यं भजनीया इत्यर्थः । अत्र 'वृङ् संभक्तौ' इत्यस्माद् ण्यदित्यर्थः । अवधपण्यवर्या इति निपातनसिद्धो यत्तु न, अत्र निरोधस्य नियमस्य विवक्षितत्वात् । ननु 'वदः सुपि-' इत्यतः अनुवृत्त्यैव सिद्ध क्यग्रहणमिह व्यर्थम् । न च चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यग्रहणमिति वाच्यम्, चकारस्य अस्वरितत्वेन 'भुवो भावे' इत्याद्युत्तरसूत्रेष्वनुवृ. त्यभावादित्यत आह क्यवुक्तिः परस्यापीति । 'ओरावश्यके' इति विहितस्येत्यर्थः । वेति काशिकेति । वा क्यप । तदभावे हलन्तत्वाद् ण्यत् । भाष्ये वेतन दृश्यते इति भावः । शस्यम, शंस्यमिति । क्यप्पक्षे 'अनिदिताम्-' इति नलोपः। दुह्यमिति । क्यप्पक्षे कित्त्वान्न गुणः । अत्र शंसिदुहिगुहिभ्यो वा' इत्यस्य भाष्ये अदर्शनेऽपि शंसेण्यत्क्यपी प्रामाणिकावित्थाह प्रशस्यस्येति । 'प्रशस्यस्य श्रः' इति निर्देशबलात् शंसेः क्यप्सिद्धः । 'ईडवन्दवृशंसदुहां ण्यतः' इत्यायुदात्तत्वविधौ शंसेर्यदन्तत्वानुवादबलाद् ण्यत्सिद्धः । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः । उपसंख्यानईङ् गताविति देवादिकाद्यत् । न वृङ इति । 'ईडवन्द-' इति ज्ञापकात् तत्र हि ईडवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ एव प्रहणमिति भावः । परस्यापीति । 'ओरावश्यके' इति प्राप्तस्य ण्यस्थावकाशोऽवश्यलाव्यमिति अावश्यकविवक्षायां स्तुत्य इत्यादी क्यपोऽवकाशः अवश्यस्तुत्य इत्यादावुभयप्राप्तौ ‘विप्रतिषेधे परम्-' इति ण्यत्स्यात् तन्माभूदिति पुनः क्यबुक्तिरिति भावः। आइपूर्वाद रिति । ननु ण्यत्येव नलोपः कस्मान्नोक्त इति चेन्न । कुत्वप्रसमात्तित्स्वरप्रसाच । तस्मात्क्यबन्त एवाज्यशब्दः । नन्वेवमवप्रहः प्राप्नोति । न चेष्टापत्तिः, 'आज्यं किमासीत्' इत्यादौ पदकारैस्तदकरणादिति चेत् । अत्र भाष्यम्-न लक्षणेन पदकारा अनुवाः पदकारैस्तु लक्षणमनुवर्त्यमिति । सत्यपि अवान्तरपदत्वे 'ऋत्विजम्', 'पूर्वेभिः' इत्या