SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६५ ] बालमनोरमा-तस्वबोधिनीसहिता । [ १७ C वृत् वृत्यम् । वृध् वृध्यम् । क्लृपिचथ्योस्तु कल्प्यम् चर्यम् । तपरकरणं किम् - कृत् कीर्त्यम् । अनित्यययन्ताश्चुरादय इति णिजभावे ययत् । णिजन्तात्तु यदेव । २८६० ई च खनः । ( ३-१-१११ ) चात्क्यप् । चाद्रणः ६६ । खेयम् । इ चेति ह्रस्वः सुपठः । २८६१ भृञोऽसंज्ञायाम् । ( ३-१-११२ ) मिति । क्यप इति शेषः । श्राज्यमिति । न चाङ्पूर्वकत्वे पदपाठे श्रवग्रहः स्यादिति वाच्यम्, इष्टापत्तेः । पदकाराणामवग्रहाभावस्त्वप्रामाणिक एव् । पदपाठम्याधुनिकत्वाद् इति भाष्ये ष्टम् । एवं च अस्मद्रियगित्यस्म दियगित्यवग्रहः अप्रामाणिक एव । श्रस्मद्रि अक् इत्येवावग्रहो युक्तः, अस्मच्छब्दस्य टेरद्र्यादेशविधानाद् इत्याद्यूत्यम् । ऋदुपधाच्चाक्लुपिचृतेः । क्लुप्ती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः । ननु तपरकरणमिह व्यर्थमित्यत आह अनित्यण्यन्ता इति । णिजन्तान्तु यदेवेति । 'अचो यत्' इत्यनेनेति भावः । ई च खनः । चात् क्यबिति । खनेः क्यप् स्यात् प्रकृतेः ईकारोऽन्तादेशश्चेत्यर्थः । ह्रस्वः सुपठ इति । ह्रस्वस्य इकारस्य आद्गुणेन खेयमिति सिद्धेरिति भावः । दाविव संप्रदायानुरोधेन क्वचिदवग्रहो न क्रियते इत्यादि तदाशयः । क्लुपिचुत्योस्विति | कृपू सामर्थ्ये । वृती हिंसाग्रन्थनयोः । कल्प्यमिति । कृपेर्लत्वस्यासिद्धत्वाद् ऋलुवर्णयोः सावर्ण्यविधानाच्च ऋदुपधत्वम् । ह्रस्वः सुपठ इति । दीर्घ पठतः सूत्रकृतस्त्वयमाशयः - दीर्घनिर्देश इ इ इति प्रार्थस्तत्र द्वितीय इकारो 'ये विभाषा' इत्यात्वबाधनार्थः । अन्यथा 'ये विभाषा' इत्यस्यावकाशः खायते । खन्यते । इत्वस्यावकाशो यस्मिन् पते त्वं नास्ति । त्वपक्षे तु उभयसने परत्वादन्तरङ्गत्वा चात्वं स्याद् 'ये विभाषा' इत्यत्र हि ये इति विषयसप्तमी । तथा च यकारादौ बुद्धिस्थे एव प्राप्तमात्वमन्तरम् । ईकारस्तु क्यपा सह विधानाद् बहिरङ्गः । तथा चान्तरङ्गस्यात्वस्य बाधनाय प्रश्लेषेण द्वितीय इकारविधिरावश्यक इति ई चेति दीर्घोचारणं कृतमिति । दीर्घ प्रत्याचक्षाणस्य भाष्यकृतस्त्वयमाशयः । इत्वमन्तर परनिमित्तमनपेक्ष्य विधानात् क्यप्संनियोगशिष्टं हि तद् । श्रात्वं तु बहिरङ्गं ये इति परसप्तम्याश्रयणात् । एवं च इत्वेनात्वबाधो न्याय्य एवेति दीर्घो न पठनीयः । हखपाठे मात्रालाघवमस्तीति तदनुरोधेन ये इति परसप्तम्याश्रयणमपि युक्तमिति । स्यादेतत् - इ चेति हखादेशाभ्युपगमे तस्यादेशस्य पूर्वेण सह श्राद्गुणे तस्यासिद्धतया 'ह्रस्वस्य पिति-' इति तुक् स्यात्, 'षत्वतुकोरसिद्धः' इति षत्वे तुकि च कर्तव्ये एकादेशशास्त्रस्यासिद्धत्वस्वीकारात् । श्रतो दीर्घ एव विधेय इति चेत् । मैवम् । पदान्तपदाद्योरादेशो ऽसिद्धो न त्वन्योऽपीति सिद्धान्तात् । अन्यथा वृक्षे छत्रमित्यत्र वाद
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy