________________
१८]
सिद्धान्तकोमुदी। [कृदन्ते कृत्यभृत्याः कर्मकराः। भर्तण्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा । समश्च बहुलम् । संभृत्याः । संभार्याः । असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम्भार्या नाम क्षत्रियाः । अथ कथं भार्या वधूरिति । इह हि 'संज्ञायां समज-' (सू ३२७६) इति क्यपा भाग्यम् । संज्ञापयुदासस्तु पुंसि चरितार्थः । सत्यम् । बिभर्ते, इति दीर्घान्तात् क्रयादेर्वा एयत् । क्यप् तु भरतेरेव । 'तदनुबन्धकग्रहणे नातदनुबन्धकस्य' इति परिभाषया २८६२ मृविभाषा। (३-१-११३) मृजेः क्यम्वा स्यात् । पक्षे एयत् । मृज्यः । २८६३ चजोः कु घिण्यतोः। भृतोऽसंज्ञायाम् । क्यबिति शेषः । भृत्याः कर्मकरा इति । भृत्यर्थ कर्म कुर्वाणा इत्यर्थः । 'कर्मणि भृतौ' इति कृअष्टः। भर्तव्या इति । वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः । ननु भृत्यशब्दस्य कर्मकरेषु रूढत्वात्संज्ञाशब्दत्वमेवेत्यत आह क्रियाशब्द इति । भार्या नाम क्षत्रिया इति । क्षत्रियविशेषेषु रूढः संज्ञाशब्दोऽयमिति भावः। अथ कथं भायेति । क्यपा भवितव्यमित्याक्षेपः। ननु वध्वां भार्याशब्दस्य संज्ञाशब्दत्वाद् 'भृोऽसंज्ञायाम् इत्यस्याप्रवृत्तेरयमाक्षेपोऽनुपपन्न इत्यत आह इह हीति । 'त्रियो क्लिन्' इत्यतः स्त्रियामित्यनुवृत्तौ 'वजयजो वे क्यप् ।' 'संज्ञायां समजनिषद-' इति सूत्रेण क्यप् स्यादित्यर्थः । ननु संज्ञायां भृञः क्यब्विधौ ‘भृञोऽसंज्ञायाम्' इत्यत्र असंज्ञायामिति व्यर्थमित्यत आह संज्ञापयुदासस्त्विति । समाधत्ते सत्यमिति । 'डु भृञ् धारणपोषणयोः' इति जुहोत्यादौ ह्रस्वान्तो ड्वित् भिच्च । 'भृ भर्त्सने, भरणेऽपि' इति क्रयादौ दीर्घान्तः। आभ्याम् 'ऋहलो.
येत्' इति ण्यदेवत्यर्थः। क्यप् तु भरतेरेवेति । 'भृञ् भरणे' इति भ्वादौ हस्वान्तो जित् । अस्यैव 'संज्ञायां समजनिषद-' इत्यत्र 'भृओऽसंज्ञायाम्' इत्यत्र च भृग्रहणेन प्रहणम् । न तु डुभृतो जौहोत्यादिकस्य । न च कैयादिकस्य निरनुबन्धकस्य दीप्तिस्येति भावः, कुत इत्यत आह तदनुबन्धकेति । 'तदनुबन्धकग्रहणे नीतदनुबन्धकस्य' इति परिभाषयेत्यर्थः । बिभर्तेः क्यबभावे बीजमिदम् । कैयादिकस्य दीर्घान्तत्वाद् न क्यब् इति बोध्यम् । मृजेर्विभाषा । गुणस्यासिद्धतया छे चेति ह्रस्वाश्रयो नित्यस्तुक् स्यात् । इष्यते तु दीर्घात्पदान्ताद्वेति वैकल्पिक इति दिक् । 'भृोऽसंज्ञायाम्' इत्यसंज्ञाग्रहणसामर्थ्याद्भार्येत्यत्र सूत्रान्तरेणापि क्यब् न भविष्यतीत्यत आह पुंसि चरितार्थ इति । भार्या नाम क्षत्रिया इत्यत्रेत्यर्थः । तदनुबन्धेति । इभृञ् इत्यनेकानुबन्धत्वाद् बिभर्तेः क्यपोऽप्रसन्न इति भावः । मृजेर्विभाषा । ऋदुपधत्वान्नित्यं क्यपि प्राप्तेऽयमारम्भः। चजोः ।