SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६ (७-३-५२) चस्य जस्य च कुरवं स्याद् घिति एयति च प्रत्यये परे । [ 'निष्ठायामनिट इति वक्तव्यम्' (वा ४५५१) । तेनेह व। गय॑म् ] । 'मृजेर्वृद्धिः' (सू २४७३) । मार्यः । २८६४ न्य झ्वादीनां च । (७-३-५३) कुत्वं स्यात् । न्यकुः। 'नावाचेः' (उ सू १७) इत्युप्रत्ययः । २८६५ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः । (३-१-११४) एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतन्योऽभिषवद्वारा निष्पादयितव्यः । यद्वा लतारमकः सोमो राजा स सूयते करड्यतेऽत्यधिकरणे क्यन्निपातनादीर्घः । राजसूयः, राजसूयम् । अर्धचादिः सरस्याकाशे सूर्यः। कर्तरि क्यन्निपातनादुस्वम् । यद्वा 'पू प्रेरणे' तुदादिः । सुवति कर्मणि लोकं प्रेरयति क्यपो रुट् । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यानिनोऽयम् । 'उच्छ्राय. सौन्दर्यगुणा मृषोद्याः' । रोचतेः रुच्यः । गुपेरादेः कत्वं च संज्ञायाम् । क्यप्पक्षे उदाहरति मृज्य इति। कित्त्वान्न गुणः । चजो कु घिएण्यतोः । कु इत्यविभक्तिको निर्देशः । चजोघिराण्यतोश्च यथासंख्यं तु न, 'तेन रक्तं रागात्' इति घनि जस्य कुत्वनिर्देशात् । राजसूय । राति । क्षत्रियेणेत्यर्थः । अभिषवेति । ग्रावभी रसनिष्पत्त्यर्थ सोमलताना कुट्टनमभिषवः, तत्प्रणाडिकया निष्पाद, यितव्यो यज्ञविशेषो राजसूय इत्यन्वयः । यद्वेति । लताविशेषात्मकः सोमः राजशब्देन विवक्षितः, राजानं कोणातीत्यादौ तथा प्रसिद्धेः । स राजा सूयते अभिषूयते अत्र यज्ञविशेषे इति व्युत्पत्त्या राजसूय इत्यन्वयः । 'कर्तरि कृत्' इत्यधिकारात् कथमधिकरणव्युत्पत्तिरित्यत आह अधिकरण क्यबिति । कुत इत्यत आह निपातनादिति । ननु षुधातोः क्यपि कथं दीर्घः । अकृत्सार्वधातुकयो:-' इत्यस्य कृत्यप्रवृत्तेरित्यत आह निपातनाद्दीर्घ इति । निपातनादित्युभयत्रान्वेति । उत्वमिति । तस्य रपरत्वे 'हलि च' इति दीर्घ इत्यपि बोध्यम् । मृषोद्यमिति । क्यपि 'वचिस्वपि-' इति संप्रसारणम् । रोचतेरिति । रुचधातोः क्यपि रुच्य यथासंख्यं नेह विवक्षितं 'तेन रक्तं रागात्' इति लिङ्गादिति कैयटहरदत्तादिभिरुक्तं तदालोच्याह चस्य जस्य चेत्यादि । घिति एयति च चस्य कुत्वं घिति रायति च जस्य कुत्वमिति विवेकः । न्यङ्कुरिति। 'कृष्णसाररुरुन्यकुरङ्कुशम्बररोहिषाः' इत्यमरः । राजसूय । यद्वेति । राजानं क्रीणन्ति इत्यादौ तथादर्शनादिति भावः । षुञ् अभिषव इत्यस्य ह्रस्वान्तत्वादाह निपातनादीर्घ इति । निपातनं च रूढ्यर्थमपि । तेनाद्यपक्षे अश्वमेधादौ द्वितीयपक्षे ज्योतिष्टोमादौ च नातिप्रसनः। उत्वमिति । तस्य र परत्वाद् ‘हलि च' इति दीर्घ इति भावः । नित्यं क्यबिति ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy