SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी । [कृदन्ते कृत्य सुवर्णरजतभिन्नं धनं कुप्यम् । गोप्यमन्यत् । कृष्ठे स्वयमेव पच्यन्ते कृष्टपच्याः कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः । न व्यथतेऽग्यथ्यः । २८६६ भिद्यो - धौ नदे । ( ३-१-११५) भिदेरुश्च क्यप् । उज्झेर्धस्वं च । भिनत्ति कूलं भिचः । उज्झत्युदकमुद्धयः । नदे किम् - भेत्ता । उज्झिता । २८६७ पुष्यसिध्यौ नक्षत्रे । ( ३-१-११६) अधिकरणे क्यनिपात्यते । पुष्यन्त्यस्मिवर्थाः पुष्यः । सिध्यन्त्यस्मिन्सिध्यः । २८६८ विपूयविनीयजित्या मुञ्जकल्कहलिषु । ( ३-१-११७ ) पूनीञ्जिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः एकः । पिष्ट श्रोषधिविशेष इत्यर्थः । पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्य इत्यर्थः । कृष्टसमीकरणार्थ स्थूलकाष्ठं हलिः । अन्यत्तु विपव्यम् विनेयम् जेयम् । २८६६ प्रत्यपिभ्यां प्रहेः । ( ३-१-११८) 'छन्दसीति वक्तव्यम्' ( वा १३४४ ) । प्रतिगृह्यम् । इति रूपमित्यर्थः। गुपेरिति । गुप्धातोः क्यप् प्रकृतेरादिवर्णस्य ककारश्च संज्ञायां निपात्यते इत्यर्थः । सुवर्णरजतभिन्न धनं कुप्यमिति ज्ञेयम् । तथा च 'हेमरूपे कृताकृते' इत्युक्त्वा अमर श्राह ' ताभ्यां यदन्यत्तत्कुप्यम्' इति । कृष्ट इति । कृष्टप्रदेशे ये स्वयं पच्यन्ते फलन्ति ते कृष्टपच्या इत्यर्थः । कर्मकतरीति । अत्र कर्मकर्तरि क्यबित्यर्थः । निपातनादिति भावः । शुद्धे त्विति । मुख्यकर्मणि तु यति उपधावृद्धौ 'चजो:' इति कुत्वे कृष्टपाक्य इति रूपमित्यर्थः । न व्यथते अव्यय इति । अत्र निपातनात् कर्तरि क्यविति भावः । भिद्येोध्यौ नदे । क्यविति । नदविशेषे कर्तरि निपात्यते इति शेषः । पुष्यसिध्यौ । निपात्येते इति शेषः, नक्षत्रविशेष गम्ये इत्यर्थः । विपूय । विपूय, विनीय, जित्य एते यथाक्रमं मुजकल्कहलिषु क्यबन्ता निपात्यन्ते । तदाह पूङित्यादिना । न्यादिसाहचर्यात् भौवादिकस्यैव पूधातोर्प्रहणमिति भावः । कल्कः शोधकद्रव्यम् । पापमिति वेति । कल्कशब्दस्य शोधनीये पापे - 1 २०] तेन 'वदः सुपि क्यप् च' इति यत्प्रत्ययो नेति भावः । भिद्योज्यौ । क्याबिति । कर्तरीति शेषः । उद्ध्य इति । ' तोयदागम इवोष्यभिययोर्नामधेयसदृशं विचेष्टितम्' इति रघुः । पुष्यासध्यौ । नक्षत्रे किम्, पोषणं सेधनम् । श्रधिकरणे ल्युट् । पुण्य सिध्ययोः पर्यायत्वेऽपि खरूपपरत्वात्सूत्रे द्वन्द्वः । ' पुष्ये तु सिध्यतिष्यौ' इत्यमरः । पापमिति वेति । 'तपो न कल्कोऽध्ययनं न कल्कः' इत्युपक्रम्य 'तान्येव भावोपहतानि कल्कः' इति भारते दर्शनात् 'कल्कः पापाशये पापे दम्भे विकििट्टयो - रपि' इति कोशाच्चेति भावः । वक्तव्यमिति । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । क्यप
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy