________________
प्रकरणम् ६५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१ अपिगृह्यम् । लोके तु प्रतिप्रायम् अपिग्रामम् । २८७० पदास्वैरिबाह्यापक्ष्येषु च (३-१-११६) अवगृह्यं प्रगृह्यं वा पदम् । अस्वैरी परतन्त्रः । गृह्यकाः शुकाः । पारादिबन्धनेन परतन्त्रीकृता इत्य र्थः । बाह्यायाम्-ग्रामगृह्या सेना । प्रामबहिर्भूतेत्यर्थः । स्त्रीलिङ्गनिर्देशात्पुंनपुंसकयो । पक्ष भवः पच्यः । दिगा. दित्वायत् । आयेंगुरते मार्यगृह्यः । तत्पक्षाश्रित इत्यर्थः । २८७१ विभाषा कृवृषोः। (३-१-१२०) क्यप्स्यात् । कृत्यम् : वृष्यम् । पने-२८७२ ऋहलोय॑त् । (३-१-१२४) वर्णान्तावलन्ताच धातोर्यस्स्यात् । कार्यम् । वयम् । २८७३ युग्यं च पत्रे । (३-१-१२१) पत्रं वाहनम् । युग्यो गौः । अत्र क्यप्कुस्वं च निपात्यते । २८७४ अमावस्यदन्यतरस्याम् । ऽपि प्रसिद्धत्वादिति भावः। हलिशब्दस्य विवरणम् कृष्टसमीकरणार्थमिति । प्रत्यपिभ्यां ग्रहः। छन्दसीति । वार्तिकमिदम् । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । ननु छान्दसस्य किमर्थमिहोपन्यास इत्यत आह लोके त्विति । पदास्वैरिबाह्यापयेषु च । पद, अस्वैरि, बाह्या, पक्ष्य एश्वर्थेषु ग्रहः क्यबित्यर्थः। अवगृह्यं प्रगृह्यं वा पदमिति । समस्तपदस्य अवान्तरपदविच्छेदः अवप्रहः । 'अप्रावेत्यादिपदमितिशिरस्कं प्रप्रहः' इति प्रातिशाख्ये प्रसिद्धम् । 'ईदूदेद्. द्विवचनं प्रगृह्यम्' इति सूत्रोदाहरणं च प्रगृह्यम् । विभाषा कृवृषोः । पञ्चम्यर्थे षष्ठी। कृत्रः ऋदन्तत्वाद् नित्यं एयति प्राप्ते, वृषेः ऋदुपधत्वाद् नित्यं क्यपि प्राप्ते च, क्यचिकल्पोऽयम्। पक्षे इति । क्यबभावपक्षे विशेषो वक्ष्यते इत्यर्थः । ऋहलोर्यत । परमय षष्टी । तदाह ऋवर्णान्तादिति । युग्यं च उदाहरणं तु छन्दस्येव । मत्तस्य न प्रतिगृह्यं तस्मानापि गृह्यम् लोके त्विति । एयदेवेति भावः। पदास्वैरि । एष्वयषु आहे. क्यप् स्यात् । अवगृह्यमिति । यस्य पदस्थावग्रहः क्रियते तत्पदम् । अवग्रह विच्छेदः । अवान्तरपदसंज्ञा सूचयितुं पदपाठकाले किंचित्कालमवसानम् । प्रगृह्यमिति । यस्य प्रग्रहस्तत्पदम् । प्रग्रहस्तु प्रकृ. तिभावाधणायभावे परस्परमचोरसन्निकर्षः । यस्य प्रगृह्यसंज्ञा विहिता तत्प्रगृह्यमिति वृत्तिः । यद्यपि पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा नतु पदस्य तथाप्यवयवधर्मस्य समुदाये उपचारो बोध्यः। अवगृह्यप्रगृह्यशब्दौ प्रातिशाख्यादिषु पदविशेषपरतया निरूढौ । अस्वैरीति । खेन ईरितुं शीलमस्य खैरी खतन्त्र । 'खादीरेरिणोः' इति वृद्धिः । नम्पूर्वस्तु अस्वैरी। गृहाका इति । 'अनुकम्पायम्' इति कन् । 'गृहासक्काः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते' इत्यमरः । विभाषा के। करोतेः क्यप्य. प्राप्ते वृषेस्तु ऋदुपधत्वामित्यं प्राप्तेऽयमारम्भः। पत्त्रं वाहनमिति । पतत्यनेनेत्यर्थे