________________
२२]
सिद्धान्तकौमुदी। [कृदन्ते कृत्य(३-१-१२२ ) अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सस्यां पाक्षिको हस्वश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्राविमावास्या, अमावस्या । 'हलो.
येत्' (सू २८७२)। 'चजो:-' (सू २८०३) इति कुत्वम् । पाक्यम् । पाणी सृजेण्यद्वाच्यः' (वा ११४६) ऋदुपधलक्षणस्थ क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसा रज्जुः। 'समवपूर्वाच्च' (वा १९४७) समवसर्यो । २८७५ नक्कादेः। (७-३-५६) कादेर्धातोश्वजोः कुरवं न। गर्व्यम् । वार्तिककारस्तु पत्त्रे । क्यबन्तं निपात्यते । रायतोऽपवादः । युग्यो गौरिति । शकटादिना योक्तव्य इत्यर्थः । क्यपि कुत्वं निपातनात् । पत्त्रं वाहनमिति । पतन्ति गच्छन्त्यनेनेत्यर्थे 'दाम्नीशस-' इत्यादिना करण ष्ट्रन् । ण्यति तु योग्यमिति स्यात् । अमावस्यद । अधिकरणे इति । निपातनलभ्यमिदम् । अमत्यस्य विवरणम् सहेति । 'ऋहलो. रयत्' इत्यनुपदमेव प्राक् प्रसङ्गाद् व्याख्यातमपि सूत्रक्रमात् पुनरुपात्तम् । कुत्वमिति। पचेर्यति 'चजोः-' इति कुत्वमिति भावः । ननु पाणौ सृजेण्र्यदिति व्यर्थम् , 'ऋहलोः' इत्येव सिद्धेरित्यत आह ऋदुपधलक्षणस्येति । 'ऋदुपधच्चाक्लुपितेः' इति एयदपवादस्य क्यपो बाधनाथमित्यर्थः पाणिसा रज्जुरिति । एयति 'चजोः' इति कुत्वम् । समवपूर्वाञ्चेति । वार्तिकमिदम् । सृजेर्यदिति शेषः । न क्वादः। कुः श्रादिर्यस्येति विग्रहः । चजोः कु इत्यनुवर्तते, तदाह क्कादेरिति । कवर्गादे. रित्यर्थः। वार्तिककारस्त्विति । 'चजोः कु घिएण्यतोः' इति सूत्रे 'निष्ठायाम'दानीशस-' इत्यादिना करणे ष्ट्रन् । युग्यो गौरिति । यद्यपि 'तद्वहति रथयुगप्रासङ्गम्' इति तद्धितयतापि इदं सिध्यति तथापि ण्यतं व्यावर्तयितुमिदं सूत्रम् । अन्यथा हि योग्यो गौरिति स्यात् । अन्ये त्वाहुः-युग्यो हस्तीति हि वृत्तावुदाहृतं तत्तु तद्धितेन न सिध्यति । न हि हस्ती युगं वहति । कृता तु सिध्यति । युज्यते संबध्यते ह्यसौ कुथादिनेति, ततश्चात्र वैयर्थ्यशळेव नास्तीति दिक् । वृद्धौ सत्या. मिति । तेन 'अमावास्याया वा' इति विहितस्तद्धितो हवपक्षेऽपि सिध्यति एकदेशविकृतस्यानन्यत्वात् । यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्तेऽधिकरणे ण्यदेव तावद् दुर्लभः। अयापि बाहुल काल्लभ्येत । एवमपि एयदन्तमनूय विहितस्तद्धितो यदन्तान स्यादिति दिक् । ऋहलोः। पञ्चम्यर्थे षष्ठी । ऋ इति ऋधातोर्न ग्रहणं किं तु ऋवर्णस्य, हला साहचर्यात्परं कार्यमिति निर्देशाद् 'ईडवन्द-' इत्यादिलिशाच्च । 'ऋहलो:-' इत्यतदनुवर्तमानस्य धातोविशेषणं विशेषणेन तदन्तविधिस्तदेतदाह ऋवर्णान्तादित्यादि । अत्रेदवमधेयम्-मूलपुस्तकेषु सर्वत्र विभाषा कृवृषोः' इत्यत्र पक्षे एयद् भवतीति वक्तुम् 'ऋइलोर्यत्' इति सूत्रं