________________
प्रकरणम् ६५ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २३ 'चजो:-' ( सू २८६३ ) इति सूत्रे 'निष्ठायामनिट:' इति पूरयित्वा 'न वादेः' इत्यादि प्रत्याचख्यौ । तेन श्रर्जितर्जिप्रभृतीनां न कुत्वम् । निष्ठायां सेवात् । प्रचुग्लुचुप्रभृतीनां तु क्कादिस्वेऽपि कुत्वं स्यादेव | सूत्रमते तु यद्यपि विपरीतं प्राप्तम् । तथापि 'यथोत्तरं मुनीनां प्रामाण्यम्' । २८७६ अजिव्रज्योश्च । (७-३-६० ) न कुध्वम् । समाजः । परिव्राजः । २८७७ भुजन्युब्जौ पाण्युपतापयोः । ( ७-३-६१ ) एतयोरेतौ निपातौ । भुज्यते अनेनेति भुजः पाणिः। ‘हलश्च' ( सू ३३०० ) इति घञ् । न्युब्जन्स्यस्मिन्निति न्युब्जः । उपतापो रोगः । पाय्युपतापयोः किम्-भोगः समुद्रः । २८७८ प्रयाजानुयाजी यज्ञाङ्गे । ( ७-३ - ६२ ) एतौ निपात्यो यज्ञ!ङ्गे । पञ्च प्रयाजाः । निटः' इति पूरितम् । तथा च निष्ठायां य: अनिट् तद्धात्ववयवयोः चजोः कु स्याद् घिति यति चेत्यर्थः फलति । तथा 'न क्वादेः' इति सूत्रम् 'अजिव्रज्योश्च' इति सूत्रं 'यजयाच रुचप्रवचर्चश्च' इत्यत्र याचरुचग्रहणं च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः । किं तत इत्यत आह तेनेति । सूत्रमते अर्जितर्जिप्रभृतीनां ण्यति कुत्वं स्यात्, 'न कादेः' इति निषेधस्य तत्राप्रवृत्तेरिति भावः । तदेवं सूत्रमते निव्याप्तिमुक्तत्वा अव्याप्तिमाह ग्रुचुग्लुञ्चुप्रभृतीनामिति । तेषां कवर्गादित्वेऽपि यति प्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव वार्तिकमते 'न क्वादेः' इति निषेधस्य प्रत्याख्यातत्वात् । सूत्रमते तु 'न क्वादेः' इति निषेधात् प्रोक्यमित्यादौ कुवमिष्टं न स्यादित्यव्याप्तिरिति भावः । नन्विदं वार्तिकं विपरीत फलमपि संमतत्वाद् ग्राह्यमेव । विरोधे विकल्पस्य वक्तुं शक्यत्वादिति शङ्कते सूत्रमते तु यद्यपीति । परिहरति तथापीति । यथोत्तरमिति । अयं वैयाकरणसमयः | अजिब
पठित्वा पश्चाद् 'युग्यं च पत्रे' 'अमावस्यदन्यतरस्याम्' इति पठितम् । मनोरमायां तु सूत्रपाठ क्रमेण 'युग्यं च पत्रे', 'अमावस्यदन्यतरस्याम्' इति व्याख्याय पश्चाद् 'ऋहलोः-' इति सूत्रं व्याख्यातं तथवात्रापि व्याख्यातमिति । गर्ज्यमिति । गर्ज शब्दे ‘ऋहलोः-' इति रायति 'चजो:-' इति कुत्वे प्राप्तेऽयं निषेधः । कुत्वं स्यादेवेति । 'उदितो वा' इति क्वायामिविकल्पाद् 'यस्य विभाषा' इति निष्ठायामनित्वादिति भावः । विपरीतमिति । सूत्रकारमते ग्रचुग्लुञ्चुप्रभृतीनां 'न क्वादेः' इति कुत्वं न भवति, वार्तिककारमते तु निष्ठायामनित्वात् 'चजो:-' इति कुत्वं भवतीति परस्परविरुद्धमित्यर्थः । यथोत्तरमिति । तथा च वार्तिफानुरोधेन कुत्वं स्वीकर्तव्यमिति भावः । समाज इति । श्रज गतिक्षेपणयोरित्यस्माद्धनि ‘चजोः-' इति कुत्वे प्राप्तेऽयं निषेधः । एवं व्रजेरपि । न्युब्ज इति । उब्ज आर्जवे ।
1