SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ ] सिद्धान्तकौमुदी। [कृदन्ते कृत्य. त्रयोऽनुयाजाः । यज्ञाने किम्-प्रयागः अनुयागः । २८७६ वञ्चेर्गतौ । (७-३-६३) कुत्वं न । वम्च्यम् । गतो किम्-वयं काष्ठम् । कुटिलीकृतमित्यर्थः । २८८० अोक उचः के। (७-३-६४) उचेर्गुणकुरवे निपात्येते के परे । प्रोकः शकुन्तवृषलौ । इगुपधलक्षणः कः। घना सिद्धे अन्तोदात्तार्थमिदम् । २८८१ ण्य आवश्यके । (७-३-६५) कुत्वं न अवश्यपाच्यम् । २८८२ यजयाचरुचप्रवचचंश्च । (७-३-६६) रये कुत्वं न। याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । 'च' अय॑म् । ऋदुपधस्वेऽप्यत एव ज्ञापकाएण्यत् । 'त्यजेश्च' त्याज्यम् । 'त्यजिपूज्योश्च' इति काशिका । तत्र पूजेग्रहणं चिन्त्यम् । भाष्यानुक्रत्वात् । 'एयरप्रकरणे त्यजेरुपसंख्यानम् । इति ज्योश्च । इत्यादि स्पष्टम् । वञ्चेर्गतौ । कुत्वं नेति । शेषपूरणमिदम् । 'चजोः कु घिराण्यतोः' इत्यतः कुग्रहणस्य 'न क्कादेः' इत्यतो नेत्यस्य चानुवृत्तरिति भावः । ण्य आवश्यके। कुत्वं नेति । शेषपूरणमिदम् । आवश्यकेऽर्थे यो एयः तस्मिन् परे ‘चजोः कु घिएण्यतोः' इति कुत्वं नेत्यर्थः । यजयाच । ण्ये कुत्वं नेति । शेषपूरणमिदम् । यज, याच, रुच, प्रवच, ऋच् एषा द्वन्द्वात् षष्ठी । एषां राये परे 'चजोः कु घिराण्यतोः' इति कुत्वं नेत्यर्थः । ननु अर्यमित्यत्र कथं एयत् । 'ऋदुपधाचाक्लुपिचतेः' इति ऋदुपधत्वलक्षणस्य क्यपो एयदपवादत्वा दित्यत आह ऋदुपधत्वेऽपीति । त्यजिपूज्योश्चेति । रये कुत्वं नेति शेषः । निपूर्वस्यास्य जस्य कुत्वाभावो दस्य च वकारो निपात्यते। घना सिद्ध इति । उच समवाय इत्यस्माद्धनि 'चजो:-' इति कुत्वे लघूपधगुणे च श्रोक इति रूपं सिध्यति, परं तु 'नित्यादिनित्यम्' इत्यायुदात्तत्वमनिष्टं स्यादिति भावः। ण्य आवश्यके । अवश्यंभाव आवश्यकम् । मनोज्ञादित्वाद् वुञ् । अव्ययानां भमात्रे टिलोपः । अवश्यपाच्यमिति। 'श्रावश्यकाधमर्थयोणिनिः' 'कृत्याश्च' इति रायत्। श्रावश्यकशब्दोऽर्थद्योतनार्थो न तु प्रयोगार्थः । तेनार्थप्रकरणादिगम्येऽपि तस्मिन् रयत्कत्वाभावश्च भवाते । यथा 'अशोच्यानन्वशोचस्त्वम्' इति । केचित्तु शोचितुमर्हाः शोच्याः, न शोच्या अशोच्या इति भगवद्गीतास्विदं व्याचक्षते तच्चिन्त्यम् । 'अहें कृत्यतृचश्च' इति एयति 'चजो:-' कुवप्रसझात् । 'चजो:-' इति कुत्वं 'निष्ठायामनिटः' इति वार्तिकमते तु सम्यगेवेति दिक् । यज । यज देवपूजादौ । टुयाच याञ्चायाम् । रुच दीप्तौ। प्रपूर्वो वच परिभाषणे। ऋच स्तुतौ । ग्रन्थविशेष इति । तथा च संज्ञेयमिति 'वचोऽशब्दसंज्ञायाम्' इत्यस्याप्रसङ्गानिषधोऽयमिति भावः । सापकादिति । सरूपत्वाद्वासरूपविधिना एयद्भवेदिति न शहनीयमिति भावः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy