________________
प्रकरणम् ६५] बालमनोरमा-तत्वबोधिनीसहिता। [२५ हि भाष्यम् । २८८३ वचोऽशब्दसंज्ञायाम्। (७-३-६७) वाच्यम् । शब्दाख्यायो तु वाक्यम् । २८५४ प्रयोज्यनियोज्यौ शक्यार्थे । (७-३-६८) प्रयोक्तुं शक्यः प्रयोज्यः नियोक्तुं शक्यो नियोज्यो भृत्यः । २८८५ भोज्यं भक्ष्ये । (७-३-६६) भोग्यमन्यत् । 'एयत्प्रकरणे अपिदभिभ्यां चेति वक्रव्यम्' । लाप्यम् । दभिर्धातुध्वपठितोऽपि वार्तिकबलारस्वीकार्यः। दाभ्यः । २८८६ अोरावश्यके । (३-१-१२५) उवर्णान्ताद्धातोपर्यत्स्यादवश्यम्भावे पोलो । लाग्यम् । पाव्यम् । २८५७ पासुयुवपिरपित्रपिचमश्च । वचोऽशब्दसंज्ञायाम् । वचधातोर्ये कुत्वं न शब्दसंज्ञां वर्जयित्वेत्यर्थः । वाच्यमिति । वस्त्विति शेषः । अशब्दसंज्ञायामित्यस्य प्रयोजनमाह शब्दाख्यायां तु वाक्यमिति । “एकतिङ् वाक्यम्' इति संज्ञाशब्दोऽयमिति भावः । प्रवाच्यमित्यत्र तु प्रन्थविशेषसंज्ञात्वेऽपि नायं कुत्वनिषेधस्य निषेधः, 'यजयाच-' इत्यत्र प्रवचेति विशिष्योपादानाद् असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात् । एतदभिप्रायेणैव प्रवाच्यं प्रन्थविशेष इत्युक्तं प्राक् । प्रयोज्यनियोज्यौ । शक्यार्थे रये कुत्वाभावो निपात्यते । 'शकि लिङ च' इति कृत्यानां शक्यार्थेऽपि विहितत्वाद् ण्यदन्तस्य शक्यार्थकत्वमपि । भोज्यं भक्ष्ये । भक्ष्ये गम्ये गये भुजेः कुत्वाभावो निपात्यते। इति प्रासनिकम् । अथ प्रकृतम् । लपिदभिभ्यां चेति । वार्तिकमिदम् 'ऋहलोपर्यत' इति सूत्रस्थम् । 'पोरदुपधात्' इति प्राप्तस्य एयद. पवादस्य यतोऽपवादः । अोरावश्यके। लाव्यं पाव्यमिति । 'अचो णिति' इति वृद्धौ ‘वान्तो थि-' इत्यवादेशः । आसुयुवपि । आसु, यु, वपि, रपि, वाक्यमिति । तिङ्सुबन्तचयो वाक्यम्' । भोज्यम् । भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं न तु खरविशदमभ्यवहार्यम् । तेन भोज्या यवागूरित्यपि भवतीत्याहुः । भोग्यमन्यदिति । पालनीयमुपभोग्यं चेत्यथैः । लपिदभिभ्यां चेति । 'पोरदुपधात्' इति प्राप्तस्य यतोऽपवादः । जयादित्यस्तु 'आसुयुवपिरपि-' इति सूत्रे लपि प्रक्षिप्य रपिलपिचपीति पठित्वाऽनुक्तसमुच्चयाथन चकारेण दर्भः संग्रह इत्युक्तवान् तत्र वैषम्येण व्याख्यान निर्बीजं माध्यविरोधश्च स्पष्ट एवेति बोध्यम । स्वीकार्य इति । 'कास्यनेकाच श्राम्वकव्यश्चुलुम्पाद्यथम्' इति वार्तिकबलाद्यथा चुलुम्पादिभ्य आम् खोकियते तद्वदिति भावः। तथा च प्रयुज्यते-'न ता नशन्ति न दभाति तस्करः' 'विष्णुर्गोपा अदाभ्यः' इत्यादि । लाव्यमिति । आवश्यके उपपदे इति व्याख्याने तु नेदं सिध्यतीति भावः । क्वचित्तु लाघवं प्रत्यनादराद् व्यतिसे इत्यादौ व्यतिशब्दबद द्योतितार्थस्यापि प्रयोगो दृश्यते । अवश्यलाव्यम् । अत्रोपपदसमासासंभवेऽपि