________________
सिद्धान्तकौमुदी। [ कृदन्ते कृत्य(३-१-१२६) 'पु' प्रासाव्यम् । 'यु मिश्रणे' याव्यम् । वाप्यम् । राप्यम् । त्राप्यम् । प्राचाम्यम् । २८८८ आनाय्योऽनित्ये । (३-१-१२७ ) प्राङ्पूर्वाञ्च यतेयंदायादेशश्च निपात्यते । दक्षिणाग्निविशेष एवेदम् । स हि गार्हपत्या. दानीयतेऽनित्यश्च सततमप्रज्वलनात् । पानेयोऽन्यः घटादिः, वैश्यकुलादानीतो दक्षिणाग्निश्च । २८८६ प्रणाय्योऽसंमतौ। (३-१-१२८) संमतिः प्रीति. विषयीभवनं कर्मव्यापारः । तथा भोगेष्वादरोऽपि संमतिः । प्रणाय्यश्चोरः । त्रपि, चम् एषां समाहारद्वन्द्वः। रायदिति शेषः। पासाव्यमिति । आपूर्वस्य सुओ ग्रहणमिति भावः । आनाय्योऽनित्ये । अनित्ये इति छेदः । दक्षिणाग्निविशेष एवेति । वार्तिकमिदम् । स हीति । दक्षिणाग्निर्हि अग्निहोत्रार्थमहरहः गार्हपत्यादेः प्रणीयत इत्यर्थः, एतेन श्रापर्वकस्य नयतेरर्थ उक्तः । अनित्यश्चेति। गार्हपत्यवमित्यधारणाभावादिति भावः । तदाह सततमप्रज्वलनादिति । सततं धारणाभावादित्यर्थः । प्रणीतस्य दक्षिणाग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्प. सूत्रेषु 'अप्रवृत्त कर्मणि लौकिकं संपद्यते' इति । ततश्च पुनः पुनः प्रणयनाद् भनित्यत्वं दक्षिणानेरिति बोध्यम् । यद्यप्याहवनीयस्यापि पुनः पुनः प्रणयनमस्ति. तथापि 'दक्षिणाग्निविशेष एव' इति वार्तिकान्नाहवनायस्य प्रहणामत्यर्थः । विशषग्रहणान्नित्यधारणपक्षे दक्षिणाग्निरिह न गृह्यते इति सूचितम् , गतश्रियां दक्षिणामेरपि नित्यधार्यत्वात् । 'गतश्रियो नित्यधार्या अग्नयः' इति वचनादित्यलं पल्लवितेन । वैश्यकुलादानीत इति । दक्षिणाग्निं प्रकृत्य हि श्रूयते–'अहरहरेवैनं वैश्यकुलादाहरन्' इति । तथाविधदक्षिणानौ वाच्ये आनेयशब्द एवेति भावः । प्रणाय्योऽसंमतौ। असंमतौ गम्यायां प्रणाय्य इति निपात्यते। तत्र असंमतिशब्दैकदेशं संमतिशब्दं विवृणोति संमतिः प्रीतिविषयीभवनमिति । तच्च कर्मनिष्ठमित्याह कर्ममयूरव्यंसकादेराकृतिगणत्वात्समासः । आसु । पुञ्। आसाव्यमिति । घुञ् अभिषव इत्ययं गृह्यते न तु षु प्रसवैश्वर्ययोरिति । 'कृत्यल्युटो बहुलम्' इति बहुलप्रहणादिति भावः । यु मिश्रण इति । युञ् बन्धन इति तु न गृह्यते सानुबन्धक त्वादिति भावः । अत्र युप्रभृतीनां द्वन्द्वं कृत्वा पश्चादासुशब्देन द्वन्द्वः । तेन 'अल्पाचतरम्' इति युशब्दस्य न पूर्वनिपातः शङ्कयः । इहाद्ययोः 'अचो यत्' इत्यनेन रपित्रपिचमां तु 'पोरदुपधात्' इत्यनेन यत्प्रत्यये प्राप्तेऽयमारम्भः । अनित्यमात्रे यदि प्रयोगस्तहि घटादावतिप्रसा इत्यत आह दक्षिणाग्निविशेष इत्यादि । वैश्यकुलादेरिति । दक्षिणामेहि योनिर्विकल्प्यते वेश्यकुलाद्वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद्वेति । कर्मव्यापार इति तथा चायमर्थः-लोकानां या प्रीतिस्तद्विषयीभवनं