SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६५] बालमनोरम तत्त्वबोधिनीसहिता। [२७ प्रीत्यनह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः । २८६० पाय्यसान्नायनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु । (३-११२६) मीयतेऽनेन पाय्यं मानम् । एयत् धात्वादेः पत्वं च । 'श्रातो युक्-' (सू २७६१) इति युक् । सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविर्विशेषः । एयदायादेशः समो दीर्घश्च निपात्यते। निचीयतेऽस्मिन्धान्यादिकं निकाय्यो निवासः। अधिकरणे एयत् श्राय धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् । २८६१ कती कुण्डपाय्यसञ्चाय्यौ। व्यापार इति । तथेति। भोगेषु सुखदुःखानुभवेषु आसक्तिरपि संमतिरित्यर्थः । एवंविधा संमतिर्न भवतीति असंमतिरिति फलितम् । प्रणाय्यश्चोर इति । यति वृद्धौ पायादेशः । पाय्यसांनाय्य । पाय्य, सांनाय्य, निकाय्य, धाय्य एषां द्वन्द्वात्प्रथमाबहुवचनम् । मान, हविः, निवास, सामिधेनी एषां द्वन्द्वात्सप्तमी। मानादिषु गम्येषु क्रमात पाय्यादयो निपात्यन्ते। मीयते अनेनेति । माधातोः करणे ण्यत् , धात्वादेर्मकारस्य पत्वं च निपात्यते इत्यर्थः । आत इति । ण्यति 'मीनाति-' इत्यात्त्वे कृते, आतो युगिति भावः । ण्यदिति । संपूर्वाद् नीधातोः कर्मणि निपात्यत इत्यर्थः । आयादेश इति । सन्नी य इति स्थिते आयादेशो निपात्यते इत्यन्वयः । निवास इति । कुसूलादिरित्यर्थः । अधिकरणे इति । चिधातोरधिकरणे ण्यन्निपात्यते इत्यन्वयः । आय् इति । अच्परकत्वाभावाद् आयादेशोऽप्राप्तो निपा. त्यते इत्यन्वयः । धाय्या ऋगिति । धाधातोः करणे ण्यति आयादेशो निपात्यते यस्मिन्नास्ति चोरादौ सोऽसंमतिरिति । वस्तुतस्तु प्रीतिविषयीभवनापेक्षया लाघवा. स्त्रीतिरेव संमतिः सा यस्मिन् चोरादौ नास्ति लोकानां सोऽसंमतिः। यद्वा संमतिः प्रीतिविषयेषु यस्य नास्ति स विरक्तोऽसंमतिः । तन्त्रेणार्थद्वयमपि गृह्यते । पाय्यसानाय्य। चतुर्षु अर्थेषु चत्वारो निपात्यन्ते। पीयतेऽनेनेति माङः करणे ण्यत् । मेयमन्यत् । हविर्विशेष इति । 'ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायाम' इति विहितो दधिपयोरूपः । धीयते अनयेति । अत्र सर्वा सामिधेनी न प्राया किंतु समिध्यमानवती समिद्धवती चान्तरेण विकृतिषु प्रक्षिप्यमाणा 'पृथुपाजा अमर्त्यः' इत्यादिकैव । अयं च विशेषो निपातनस्य रूढ्यर्थत्वाल्लभ्यते । नन्वेवं निपातनात्सामिधेनीविशेषवाचकत्वे सामिधेनीग्रहणं व्यथमिति चेत् । अत्राहुः-सूत्रे सामिधेनीग्रहणं प्रयोगविशेषोपलक्षणार्थम् । तथा चासामिधेन्यामपि दृश्यते 'धाय्यां शंसति' इति । न हि शस्त्रेण समित् प्रक्षिप्यते । ती कुण्डपाय्य । कुण्ड. शब्दे तृतीयान्ते उपपदे पिबतेरधिकरणे यत्प्रत्ययो युगागमश्च निपात्यते। नन्वत्र
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy