________________
२८]
सिद्धान्तकौमुदी। [कृदन्ते कृत्य(३-१-१३०) कुरडेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः । समीयतेऽसौ सम्बाय्यः । २८६२ अग्नौ परिचाय्योपचाय्यसमूह्याः । (३-१-१३१) अग्निधारणार्थे स्थलविशेष एते साधवः । अन्यत्र तु परिचेयम् उपचेयम् 'संवाह्यम् । २८६३ चित्याग्निचित्ये च । (३-१-१३२) चीयतेऽसौ इति भावः । सामिधेन्यो नाम समिदाधानार्था ऋग्विशेषाः । तत्र 'समिध्यमानो अध्वरे' इति ऋच उपरि प्रक्षेप्या 'पृथुपाजा अमर्त्यः' इत्याद्या ऋक्प्रसिद्धा । क्रती कुण्डपाय्य । ऋतुविशेषे गम्ये एतौ निपात्यते । कुण्डेनेति । अत्सरुकैः चमसैरित्यर्थः । सामान्यनैकवचनम् । 'यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्डम्' इति श्रुतिः । कुण्डपाय्य इति। सत्रविशेषात्मकः क्रतुः । कुण्डेनेति तृतीयान्ते उपपदे अधिकरणे ण्यत् । श्रातो युक् । संचाय्य इति । संपूर्वात् चित्रः कर्मणि ण्यत् आयादेशश्च निपात्यते इति भावः । संचाय्यो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः । अग्नी परिचाय्य। अनौ गम्ये परिचाय्य उपचाय्य, समूद्य एते निपात्यन्ते । अग्निशब्द इष्टकारचितस्थण्डिलविशेष वर्तते, 'इष्टकाभिरग्नि चिनोति' इति श्रुतेः । इष्टकाकृतचयनेन अग्न्याख्यं स्थण्डिलं निष्पादयेदित्यर्थः । 'ब्रह्मवादिनो वदन्ति यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यमयो वै छन्दांसि तस्मादग्निरुच्यतेऽथो इयं वा अग्निर्वैश्वानरो यम्मृदा चिनोति तस्मादग्निरुच्यते' इति वाक्यशेषाच्च, तदाह अग्निधारणेति । तत्र परिपूर्वादुपपूर्वाच्च चिमः कर्मणि ण्यत् आयादेशश्च निपात्यते। संपूर्वस्य वहेस्तु कर्मणि एयति संप्रसारणम् , दीर्घश्च निपात्यते। 'समूयं चिन्वीत पशुकामः परिचाय्यं चिन्वीत प्रामकामः' इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्यौ प्रसिद्धौ। उपचाय्यस्त्वग्निः क्यचि. च्छाखायामन्वेषणीयः । चित्याग्निचित्ये च । चित्यश्च अग्निचित्या चेति द्वन्द्वः । ण्यदेव निपात्यतां प्रकृतत्वात् । एवं च 'आतो युक् चिकृतोः' इति सिद्धत्वाद् युक् च न निपातनीय इति लाघवमस्तीति चेत् । मैवम् । तित्वरप्रसङ्गात् । इष्यते तु 'यतोऽनावः' इत्यायुदात्तः कृदुत्तरपदप्रकृतिस्वरः। तथा च प्रयुज्यते । प्रणाय्यात् कुराडपाय्य इति । संपूर्वाचिनोतेस्तु ण्यदायौ निपात्यते। कतौ किम् , कुण्डपानम् । संचेयम् । अग्नौ परि। अग्निरिह न ज्वलनः किं तु तद्धारणार्थमिष्टकाचयनेन निर्मितं स्थलं तदाह स्थलविशेष इति । एते साधव इति । स्थलविशेषेऽभिधेये परिपूर्वाचिनोतेः एयदायादेशयोः संपूर्वस्य वदेस्तु संप्रसारणदीर्घयोश्च निपातनादिति भावः। चित्योऽग्निरिति । चिनोतेः कर्मणि क्यप् । यतोऽपवादः । इह सूत्रे अमावित्यनुवर्तते तच्च चित्यशब्दस्यैव विशेषणं न द्वितीयस्य । तस्य भावार्थकत्वे