SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रकरणम ६५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६ चित्योऽग्निः । श्रग्नेश्चयनमग्निचित्या । 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' (सू २८१७) स्वया गन्तव्यम् गमनीयम् गम्यम् । इह लोटा बाधा मा भूदिति पुनः कृत्यविधिः 'स्त्र्यधिकारादूर्ध्वं वासरूपविधिः क्वचिन्न' इति ज्ञापयति । तेन 'कल्युट्तुमुन्खल - र्थेषु न -' इति सिद्धम् । 'श्रर्हे कृत्यतृवश्व' ( सू २८२२ ) । स्तोतुमर्हः स्तुत्यः स्तुतिकर्म । स्तोता स्तुतिकर्ता । लिङा नाधा मा भूदिति कृत्यतृचोर्विधिः । अन निपात्येते । चित्योऽग्निरिति । कर्मणि रायत् तुक् च निपात्यते । श्रग्नेश्चयनमिति । श्रग्निशब्दे षष्ठयन्ते उपपदे चिणो रायत् तुक् च स्त्रीत्वं लोकात् । 'प्रैषातिसर्ग -' इति व्याख्यातमपि स्मार्यते । गम्यमिति । 'पोरदुपधात्' इति राय - दपवादः ब॒र्यव् । ननु सामान्येन भावकर्मणोर्विहितानां कृत्यानां प्रेषादिषु तदभावे च सिद्धेः प्रैषादिषु कृत्यविधिर्व्यर्थ इत्यत श्राह लोटा बाधा इति । इह त्रैषादिषु कृत्यविध्यभावे लोट् चेति प्रैषादिषु लोटा विशेषविहितेन कृत्यानां बाधः स्यात्, कृत्यानां प्रैषाद्यभावे भावकर्मणोश्चरितार्थत्वात् । श्रतः प्रेषादिषु कृत्यानां लोटा बाधनिवृत्तये पुनः कृत्यविधिरित्यर्थः । ननु वासरूपविधिनैव लोटा प्रैषादिषु कृत्यानां बाधो न भविष्यतीत्यत आह स्त्र्यधिकारादूर्ध्वमिति 'स्त्रियां क्तिन्' इत्यत ऊर्ध्वमित्यर्थः । ‘प्राक् स्त्रियाः वासरूपविधिः' इति भाष्यम् । ननु स्त्र्यधिकारादूर्ध्वं वासरूपविधेरप्रवृत्तौ 'स्त्रियां क्लिन्' इति सामान्यविहितस्य क्तिनः 'षिद्भिदादिभ्योऽङ्' इति विशेषविहितस्य नित्यबाधः स्यात्, ततः क्षमा क्षान्तिः, मिदा भित्तिरित्यादि न स्यादित्यत आह क्वचिन्नेति । क्वचिदित्यस्यानिर्धारणादाह तेन कल्युट्तुमुन्खलर्थेषु नेति । सिद्धमिति । एषु वासरूपविधिर्नास्तीत्यर्थः । ' स्त्र्यधिकारात् प्राग् वासरूपविधिः, न तु' तत ऊर्ध्वम्' इति भाष्यस्य क्वल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीत्यत्र संकोच इति भावः । श्रत्र व्याख्यानमेव शरणम् । श्रर्हे कृत्यतृचेचेति । प्राग्व्याख्यातेति विशेषविवक्षया स्मार्यते । 'लिङ्यदि' इत्यतो लिङनुकर्षार्थश्वकार इत्युक्तं प्राक् । ननु र्हे अनर्हेच सामान्यविधानादेव अर्हेऽपि कृत्यतृचोः नाग्निवाचकत्वासंभवात् । अग्नेरन्यत्र चेयमित्येव । शब्दकौस्तुभादौ तु श्रग्निचित्येत्यत्र भावे यकारप्रत्ययस्तुक् च निपात्यते नतु क्यप् । तेनान्तोदात्तत्वं भवति । क्यपि तु कृते क्यपः पित्त्वादनुदात्तत्वे धातुखरेण चित्य इवाद्युदात्तः स्यादिति स्थितम् । ननु वासरूपविधिना कृत्या अपि भविष्यन्तीत्यत आह स्त्र्यधिकारादूर्ध्वमि त्यादि । क्ल्युडिति । हसितं हसनं छात्रस्य । 'नपुंसके भावे क्तः' 'ल्युट् च' इत्यनयोर्विषये भावे इति घञ्न । इच्छति भोक्तुम् । अत्र 'इच्छार्थेषु लिङ्लोटौ' इति लोएन । लिङ् तु भवत्येव । 'समानकर्तृकेषु तुमुन् ' 'लिङ् च' इति वचनात् । ईष
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy