________________
३०]
सिद्धान्तकौमुदी। [कृदन्ते कृत्यः २८५४ भव्यगेयप्रवचनीयोपस्थानीयजन्यालाव्यापात्या वा । (३-४-६८) एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्ष तयोरेवेति सकर्मकारकर्मणि, अकर्म. कात्तु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः सानामयम् । गेयं सामानेन वा इत्यादि । 'शकि लिङ् च' (सू २८२३)। सिद्धयोः पुनस्तद्विधियर्थः, इत्यत आह लिङा बाधेति । अहें चेत्येतावत्येव उक्त चकारानुकृष्टस्य लिङ एवाहे विधिः स्यात् । तथा च अहे कृत्यतृचोविधिर्न स्यात्, अहे विशेषविहितेन लिला बाधात् , अनहें कृत्यतृचोश्चरितार्थत्वात् । वासरूपविधिस्तु स्यधिकारादूर्ध्व न प्रवर्तते इत्युक्तमेव । अतो लिङा बाधा मा भूदिति कृत्यतृचोविधिरित्यर्थः । भव्यगेय । कर्तरि वेति । 'कर्तरि कृत्' इत्यतः कर्तरीत्यनुवृत्तं वेत्यनेन संबध्यते। तथा च कर्तरि वा एते निपात्यन्ते । अन्यत्र नेति फलति। तत्र अन्यत्रेत्यस्यानिर्धारणादाह पक्षे इति । अन्यत्रापि न सर्वत्र, किंतु 'तयोरेव कृत्यक्तखलाः ' इति सूत्रेण सकर्मकात् कर्मणि अकर्मकाद्भावे एते कृत्या ज्ञेया इत्यर्थः । 'तयोरेव कृत्य-' इति सूत्रे 'लः कर्मणि च' इत्यस्मात्सक केभ्यः कर्मणि अकर्मकेभ्यो भावे इत्यनुवर्तते इति भावः । भवताति भव्य इति । कर्तरि अचो यत् । भव्यमनेन वेति । भावे यत् । गेयः साम्नामयामिति । गाधातोः कर्तरि यत् । 'ईद्यति' इति प्रकृतेः ईत्त्वम् । गुणः। साम्नां कर्मणामनभिहितत्वात् कृयोगे षष्ठी। कर्तुरभिहितत्वात् प्रथमा। गेयं सामानेनेति। कर्मणि यत् सकर्मकत्वात् । न तु भावे । कर्तुरनमिहितत्वात्तृतीया । कृयोगषष्ठी तु कृत्ययोगे कर्तरि वैकल्पिकी, 'कृत्यानां कर्तरि वा' इत्युक्तेः । इत्यादीति । प्रवचनीयो गुरुर्वेदस्य । प्रवक्तेत्यर्थः । कर्तरि अनीयर् । प्रवचनीयो वेदो गुरुणेति वा । उपस्थानीयः शिष्यो गुरोः, उपस्थानीयो गुरुः शिष्येणेति वा । जन्योऽसौ । जायते इत्यर्थः । जन्यमनेनेति वा । प्राप्तवतेऽसौ प्राप्लाव्यः । 'ओरावश्यके' इति कर्तरि ण्यत् । श्राप्लाव्यमनेनेति वा ।
आपतत्यसौ श्रापात्यः । 'ऋहलो:-' इति कर्तरि ण्यत् । आपात्यमनेन वा । शकि लिङ् च' इत्यपि व्याख्यातं प्राक् । विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम् । त्पानः । ‘ातो युच्' इति युच् । अत्र 'ईषदुःसुषु-' इति खल् न। लिङा बाधेति । चकारेण 'लिङ् यदि' इत्यतो लिङनुकृष्यत इति भावः । भव्य । 'तयोरेव-' इति नियमाकर्तर्यप्राप्ते वचनम् । सानामिति । कर्मणि षष्ठी। इत्यादीति । प्रवक्तीति प्रवचनीयो गुरुः स्वाध्यायस्य । प्रवचनीयो गुरुणा स्वाध्यायः । उपस्थानीयः शिष्यो गुरोः। उपस्थानीयो गुरुः शिष्येण। जायते जन्यः जन्यमनेन वा।