Book Title: Laghu Siddhant Kaumudi Part 04 Author(s): Girdhar Sharma, Parmeshwaranand Sharma Publisher: Motilal Banrassidas Pvt LtdPage 15
________________ १२ ] सिद्धान्तकौमुदी। [कृदन्ते कृत्यम्यम्' (वा १९३०) इति वार्तिकप्रयोगात् । एतेन 'अनियम्यस्य नायुक्तिः 'स्वया नियम्या ननु दिव्यचक्षुषा' इत्यादि ग्याख्यातम् । नियमे साधुरिति वा। २८४६ अवधपण्यवर्या गर्हापणितव्यानिरोधेषु । (३-१-१०१) वदेनभ्युपपदे 'वदः सुपि-' (सू २८५४ ) इति यत्क्यपोः प्राप्तयोर्यदेव, सोऽपि गर्हायामेवेत्युभयार्थ निपातनम् । अवद्यं पापम् । गर्थे किम्-अनुयं गुरुनाम । तद्धि न गचं वचनानहं च । प्रात्मनाम गुरोनोम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । पण्या गौः, व्यवहर्तव्येत्यर्थ । पाण्यमन्यत् । स्तुत्यहमित्यर्थः । यत् । अनुपसर्गादिति निषेधादित्यत आह निपूर्वात्स्यादेवेति । यदिति शेषः । कुत इत्यत आह तेन तत्रेति । प्रकारान्तरेण समाधत्ते नियमे साधुरिति वेति । 'यमः समुपनिविषु च' इति निपूर्वाद्यमे वे अप्प्रत्यये नियमशब्दः । नियमे साधुरित्यर्थे 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इन्यर्थः । अवधपण्य । श्रवद्य, पण्य, वर्य एषां द्वन्द्वात्प्रथमाबहुवचनम् । गर्य, पणितव्य, अनिरोध एषां द्वन्द्वात्सप्तमीबहुवचनम् । अवद्यादयस्त्रयः क्रमाद् गादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः । ननु 'वदः सुपि-' इत्येव सिद्ध आवद्यग्रहणं व्यर्थमित्यत प्राह नभ्युपपदे इति । यत्क्यपोः स्वरे विशेषः, संप्रसारणतदभावौ चेति भावः । अवधं पापमिति । गर्हितत्वादवाच्यमित्यर्थः । अनुद्यं गुरुनामेति । अत्र ननि उपपदे 'वदः सुपि' इति क्यपि 'वचिस्वपियजादीनां किति' इति संप्रसारण रूपम् । वचनानहमित्यर्थः । अत्र गर्हाया अप्रतीतेः यदेवेति न नियम इति भावः । ननु गुरुनान्नः अगद्यत्वात् कथं वचनानहेत्वमित्यत आह तद्धि न गर्यो वचनानहें चेति । कुत इत्यत आह आत्मनामेति । पण्या गौरिति । नियमे साधुरिति । 'यमः समुपनिविषु च' इति वैकल्पिकेऽप्रत्यये कृते 'तत्र साधुः' इति तद्धितो यदित्यर्थः । यद्यप्यस्मिन्पक्षे 'कृत्यानां कतार वा' इत्यस्याप्रवृत्तेः कर्तरि तृतीया दुर्लभा तथापि त्वयेति तेनेति च करणत्वविवक्षया तृतीयेति स्थितस्य गतिर्बोध्या। केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे । यद्वा 'यमोऽपरिवेषणे मित्' इति मतमाश्रित्य 'पर्यवसितं नियमयन्' इत्यादाविव मित्त्वं स्वीकृत्य एयन्ताद्यद् बोध्यः। अथ वा संज्ञापूर्वकविधेरनित्यत्वाद् ण्यत्येव वृद्धिर्न प्रवृत्तेति दिक् । एवं च वार्तिकप्रयोगोऽप्यन्यथासिद्ध इति तद्वलेन निपूर्वाद्यदिति न कल्पनीयमिति भावः । अनुद्यमिति । अत्र वदेः क्यवेव भवति, यजादित्वात्संप्रसारणम् , 'नलोपो नमः', 'तस्मान्नुडचि' । व्यवहर्तव्येति । यद्यपि पणितव्यशब्दोऽर्थद्वयसाधारणस्तथापिPage Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 716