Book Title: Laghu Siddhant Kaumudi Part 04 Author(s): Girdhar Sharma, Parmeshwaranand Sharma Publisher: Motilal Banrassidas Pvt LtdPage 18
________________ प्रकरणम् ६५] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५ नुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् , ब्रह्मवद्यम् । ब्रह्म वेदः, तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्येके । उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् । २८५५ भुवो भावे । (३-१-१०७ ) क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुपीत्येव, भव्यम् । अनुपसर्गे इत्येव, प्रभव्यम् । २८५६ हनस्त च । (३-१-१०८) अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चन्तादेशः । ब्रह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् । २८५७ एतिस्तुशास्वृदृजुषः क्यप। (३-१-१०६) एभ्यः क्यप्स्यात् । २८५८ हस्वस्य पिति कृति तुक् । (६-१-७१ ) इत्यः । स्तुत्यः । 'शास इदङ्हलोः' (सू २४८६)। शिष्यः । वृ इति वृक्षो ग्रहणं न वृङः। वृत्यः । वृङस्तु वार्या ऋत्विजः । उत्तरेति । 'भुवो भावे' इत्युत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः । भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयर्थ्यादिति भावः । अनुपसर्गे इति । 'वदः सुप्यनुपसर्गप्रहणम्' इति भाष्यादिति भावः । ब्रह्मोद्यमिति । वदेः क्यपि 'वचिस्वपि-' इति संप्रसारणम् । वस्तुतस्तु नेह भावग्रहणमपकृष्यते । तत्र भावग्रहणमुत्तरार्थमिति भाष्यादिति मतमनुसृत्याह कर्मणि प्रत्ययावित्येके इति। क्यब्यतावित्यर्थः । भुवो भावे । ब्रह्मभूयमिति । कित्त्वान्न गुणः । क्लीबत्वं लोकात् । भव्यमिति। भाव इत्यर्थः । अत्र सुवुपपदत्वाभावाद् यदेव, गुणः, 'वान्तो यि-' इत्यवादेशः। प्रभव्य. मिति। प्रभाव इत्यर्थः । हनस्त च । अन्तादेश इति । प्रकृतेरिति शेषः । भावे किम् ? घात्यो वृषलः। अनुपसर्गे किम् ? प्रघातः। निरुपपदं हत्येति तु असाध्वेव । एतिस्तु । एति, स्तु, शास् , वृ, दृ, जुष् एषां षण्णां समाहारद्वन्द्वात्पञ्चमी । सुप्यनुपसर्गे भाव इति निवृत्तम् , तदाह एभ्यः क्यप्स्यादिति । ह्रस्वस्य । स्पष्टमिति न व्याख्यातम् । इत्य इति । इणः क्यपि तुक् । उपेयमित्यत्र तु ईङो देवादिकाद्यत् । वृञो भावे इति सिद्धान्तात् । अत आह भाव इत्याकृष्यत इति । 'भुवो भावे' इत्यत्रानुपसर्ग इत्यनुवर्तनाद् निरुपसर्गस्य भवतेरकर्मकत्वात् 'तयोरेव कृत्य-' इति भावे कृत्यप्रत्ययसिद्धौ भावग्रहणस्य वैयर्थ्यशङ्कायां भावग्रहणमुत्तरार्थमिति भाष्ये स्थितं तद्भाष्यस्वारस्यग्राहिणां मतमाह कर्मणीति । अनुपसर्ग इति । सुपि किण, 'हनस्तो चिरणलोः' । घातः । अनुपसर्गे किम् , प्रघातः, भावे घञ्। एतिस्तु । एभ्य इति सुप्यनुपसर्गे भावे इति च निवृत्तमिति भावः । एतीतीण एव प्रहणं नेङिकोः । तयोरधिपूर्वयोरेव ग्रहणादेतीति निर्देशानुपपत्तेः । तथा च रक्षार्थ वेदानामध्येयं व्याकरणमिति भाध्ये यदेव प्रयुक्तः । केचित्तु 'इण्वदिक इति वक्तव्यम्' इति वचनादिकोऽपि भवतीत्यधीत्यामातेत्युदाहरन्ति । इत्य इति । कथं तर्हि उपेयमितिPage Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 716