Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 19
________________ सिद्धान्तकौमुदी। [कृदन्ते कृत्यमाहत्यः । जुष्यः। पुनः क्यबुनिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः । 'शंसिदुहिगुहिम्यो वा' (वा १८३५) इति काशिका । शस्यम्, शंस्यम् । दुह्यम् , दोयम् । गुह्यम् , गोह्यम् । 'प्रशस्वस्थ श्रः' (सू २००६) इंडवन्दवृशंसदुहां ण्यतः' (सू ३७०२) इति सूत्रद्वयबलाच्छुसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् | 'प्रापर्वादलेः संज्ञायामुपसंख्यानम्' (वो १६२५) । अम्जू व्यक्तिम्रक्षणादिषु, बाहुलकास्करणे क्यप्, 'अनिदिताम्- (सू ४१५) इति नलोपः, प्राज्यम् । २८५६ ऋदुपधाच्चाक्लपितेः (३-१-११०) ग्रहणमिति । वार्तिकमिदम् । न वृद्ध इति । 'वृङ् संभक्तौ' इति ङितः कैयादिकस्य न . ग्रहणनित्यर्थः । वार्या ऋत्विज इति । अवश्यं भजनीया इत्यर्थः । अत्र 'वृङ् संभक्तौ' इत्यस्माद् ण्यदित्यर्थः । अवधपण्यवर्या इति निपातनसिद्धो यत्तु न, अत्र निरोधस्य नियमस्य विवक्षितत्वात् । ननु 'वदः सुपि-' इत्यतः अनुवृत्त्यैव सिद्ध क्यग्रहणमिह व्यर्थम् । न च चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यग्रहणमिति वाच्यम्, चकारस्य अस्वरितत्वेन 'भुवो भावे' इत्याद्युत्तरसूत्रेष्वनुवृ. त्यभावादित्यत आह क्यवुक्तिः परस्यापीति । 'ओरावश्यके' इति विहितस्येत्यर्थः । वेति काशिकेति । वा क्यप । तदभावे हलन्तत्वाद् ण्यत् । भाष्ये वेतन दृश्यते इति भावः । शस्यम, शंस्यमिति । क्यप्पक्षे 'अनिदिताम्-' इति नलोपः। दुह्यमिति । क्यप्पक्षे कित्त्वान्न गुणः । अत्र शंसिदुहिगुहिभ्यो वा' इत्यस्य भाष्ये अदर्शनेऽपि शंसेण्यत्क्यपी प्रामाणिकावित्थाह प्रशस्यस्येति । 'प्रशस्यस्य श्रः' इति निर्देशबलात् शंसेः क्यप्सिद्धः । 'ईडवन्दवृशंसदुहां ण्यतः' इत्यायुदात्तत्वविधौ शंसेर्यदन्तत्वानुवादबलाद् ण्यत्सिद्धः । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः । उपसंख्यानईङ् गताविति देवादिकाद्यत् । न वृङ इति । 'ईडवन्द-' इति ज्ञापकात् तत्र हि ईडवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ एव प्रहणमिति भावः । परस्यापीति । 'ओरावश्यके' इति प्राप्तस्य ण्यस्थावकाशोऽवश्यलाव्यमिति अावश्यकविवक्षायां स्तुत्य इत्यादी क्यपोऽवकाशः अवश्यस्तुत्य इत्यादावुभयप्राप्तौ ‘विप्रतिषेधे परम्-' इति ण्यत्स्यात् तन्माभूदिति पुनः क्यबुक्तिरिति भावः। आइपूर्वाद रिति । ननु ण्यत्येव नलोपः कस्मान्नोक्त इति चेन्न । कुत्वप्रसमात्तित्स्वरप्रसाच । तस्मात्क्यबन्त एवाज्यशब्दः । नन्वेवमवप्रहः प्राप्नोति । न चेष्टापत्तिः, 'आज्यं किमासीत्' इत्यादौ पदकारैस्तदकरणादिति चेत् । अत्र भाष्यम्-न लक्षणेन पदकारा अनुवाः पदकारैस्तु लक्षणमनुवर्त्यमिति । सत्यपि अवान्तरपदत्वे 'ऋत्विजम्', 'पूर्वेभिः' इत्या

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 716